________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२८२
श्रादतत्वम् । ध्यते” इति पत्र वृषराशिभोग्यरोपिणीनक्षत्रयुतामावास्या वैशाखस्येति प्रतिपादयन्तौ श्रुतिः चान्द्र एव शक्ति बोधयति सौरे वैशाखे तदसम्भवात् तथाहि मूर्याचन्द्रमसोयः परः सनिकर्षः सामावास्या" इति गोभिलाञ्चन्द्राकयोस्कराश्यवस्थानममावास्येति वृहस्थरवावेव रोहिणीयुक्त वैशाखस्यामावास्यासम्भवात् सत्यचिन्तामणौ व्यासः। “मौनादिस्थो रविवैषामारम्भप्रथमक्षणे। भवेत्तेऽब्दे चान्द्रमासाश्चैवाद्याः हादशस्मृताः ॥ येषां शक्लप्रतिपदादिदन्तिानाम् पारम्भप्रथमक्षणे आद्यकतिरूपस्यारम्भस्याद्यसमये मौनमेषादिस्थो रविभवेत् अब्दे वर्षे त एव शुक्लप्रतिपदादिदर्शान्ताश्चान्द्रमासाचैत्रवैशाखाद्यसंन्नकाः हादशमासाः स्मृताः हादशेति न पुनमलमासेऽपि संज्ञान्तरं किन्तु हिचैत्रादिरिति। तथाच ज्योतिषे “मिथुनस्थो यदा भानुरमावास्याइयं स्व शेत् । हिरापाढ़ः स विज्ञेयो विष्णुः स्वपिति कर्कटे” ॥ वयोदशा अपि हादशसंज्ञका इति व्यासेनौपदेशिको शुक्लादिमासे चैत्रादेः शक्तिरभिहितेति । अतएव श्राइविवेके मौनादिस्थरविप्रारब्धशुक्ल प्रतिपदादिदन्तिक्षेत्रादिरिति। एवञ्च "असंक्रान्तमासो. ऽधिमासः स्फुटः स्यात् हिसंक्रान्तमासः क्षयाख्यः कदाचित् । क्षयःकार्तिकादिवये नान्यदा स्यात्तदा वर्षमध्येऽधिमासहयं स्यात्” इति ज्योतिःशास्त्रोक्तक्षयमासे व्यासोतलक्षणसङ्गतिमलमासतत्त्वेऽनुसन्धेया। असंक्रान्त इति असंक्रान्ते मलमासे प्राब्दिकं प्रथकं सपिण्डौकरणं सपिण्डौकरणमिति पञ्चम्यर्थे प्रथमा। सपिण्डीकरणात् पूर्व मासिकं प्रेतस्य कार्य न तु सपिण्डीकरणात् परं प्राप्तपिटलोकस्य प्रतिमासविहितं पार्वणं कर्तव्यं गर्भे गर्भवत्ये पुंसवनादौ वाईषिकत्ये वैश्यस्य गोभिलायुक्त पिण्ड कर्मप्रेतपिण्डदानं पुनः सपिण्डीकरणग्रहणं
For Private And Personal Use Only