________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
2७
श्रादतत्त्वम् ।
ये चतुर्थभागोन कलावशिष्टः चतुर्थभागोना या कला तथाषष्टिः कलाभागत्त्रयमात्रः सम्राद्यप्रहरे इन्दुवतिष्ठते अर्थाचतुर्द्दश्यष्टमयामे न क्षयारम्भ इति तदन्त एवामावास्यान्तयाम एव कृत्स्नं चयमेति अन्यत्रामावास्या सप्तमयाम इति विशेष: तेन मार्गशीर्ष ज्येष्ठयोरुभयदिने चन्द्र क्षयलाभे यद्यपि यदा चतुर्दशीयाममिति वचनात् पूर्वदिन एव प्राप्नोति तथापि तद्वचनं चन्द्रचयानुरोधमूलमिति कत्वचयानुरोधात् क्षोणायामपि परत्वापराहलाभे श्राइं अन्यथैतविशेषाभिधान व्यर्थ स्यात् । तत्रापि विशेषान्तरमाह स एव " यस्मिन्दे द्वादशैकश्च यव्यस्तस्मिन् तृतीयया परिदृश्योनोपजायेत" ॥ यव्यो मासः । तृतौयया मात्रया चतुर्थभागोन कलया परिदृश्यचन्द्रो न भवति किन्तु तदधिक न्यूनकलयेति तेन मलमाससंयुताब्दे अन्यमासवदनयोरपि चतुर्दश्यन्तयामादिदर्शसप्तमयामपर्य्यन्तं चय इति मलमासयुताब्दस्तु एकस्मान्मलमासादब्दद्दयानन्तर तृतीयाब्दे मलमासस्यावश्यम्भावादिति चन्द्रक्षयानुरुडम् । क्षौणापचमुपसंहरति स एव " एवं चार चन्द्रमसो विदित्वा क्षौणे तस्मिन्नपराह्णे च दद्यात्" । एवं चार' गतिविशेषम् । स्तम्भितायां विशेषमाह स एव " संमिश्रा या चतुद्दश्या अमावास्या भवेत् क्वचित् । खर्वितां तां विदुः केचिदुपेध्वमिति चापरे" ॥ क्षोणायाः पूर्वमुक्तत्वाद्दईमानायाश्च वक्ष्यमाणत्वादस्य स्तम्भितापरत्वम् । खवितां नीचां पितृलोकप्रापणानहम्। केचित् यजुर्वेदिनः अपरे ऋग्व दिन: तामेवोपेध्वम् उपगच्छत श्राधायेतिशेषः । उपेध्वमित्यत्र गताध्वमिति पाठे गतः प्राप्तः पितृलोकप्रापणायैव अध्वा अनयेति गताध्वां प्रशस्तामित्यर्थः तस्मात् छन्दोगा उभयानुरोधादिच्छात उभयादर' कुर्वन्तौति कात्यायनखरसः । व्यक्त
For Private And Personal Use Only