________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्राह तत्त्वम् ।
२०१
तिथिप्राप्तौ श्राद्धायामावास्या प्रतीक्षणौया यत्र पूर्वदिने दिवा साईमुहूर्त्तमाचेऽमावास्या परदिने च साईदशम मुहर्त्तमात्र अमावास्या अत्र चोभयदिने श्राद्धयोग्यामावास्या न प्राप्यते तत्र चतुर्दश्यान्ते निर्वपेत् दद्यात् अत्रैव विषये साग्निनिरग्न्योविशेषमाह कालमाधवौये जावालिः । " अपराहृदयाव्यापी यदि दर्शस्तिथितये । आहिताग्नेः सिनौवाली निरग्न्यादेः कुहर्मता” | आदिपदादनुपनौतशूद्रयोर्ग्रहणम् । चयकालमाह कात्यायनः । " अष्टमेऽशे चतुर्दश्याः चोणो भवति चन्द्रमाः । श्रमावास्याष्टमांशे च ततः किल भवेदणुः " ॥ चतुदेश्यष्टमे यामे चन्द्रमाः क्षीणश्चतुर्थभागोन कलावशिष्टो भवति अत्रेन्टुराद्ये प्रहरेऽवतिष्ठते इत्यादिखरसात् अमावास्यष्टमे यामे चाणुर्भवति पुनरुत्पद्यते किलेल्यागमवार्त्तायां तेनामावास्या सप्तमया मे कृत्स्नक्षय इत्यवगम्यते ततश्चान्त्यकलावयवनाशोत्पत्तिरेव चयः सा च सूक्ष्मतायां विनाशेऽप्यस्तीति श्राद्धविवेकः । उत्पत्तिराद्यच सम्बन्धः तेन विनाशस्थानन्तत्वेपि नातिव्याप्तिः । अत्र विशेषमाह स एव " आग्रहा यण्यमावास्या तथा ज्यैष्ठस्य या भवेत् । विशेषमाभ्यां ब्रुवते चन्द्रचारविदो जनाः” । श्रभ्यामिति व्यव्लोपे पञ्चमौ इमे प्राप्येत्यर्थः । चन्द्रचारविदो ज्योतिर्विदः । अत्र पौर्णमास्य न्तमास इति परिशिष्टप्रकाशः । अत्र बोज ब्रह्मपुराणौयतिथिकृत्यत्वं तथा च श्राद्धमधिकृत्य ब्रह्मपुराणम् । “पयोमूलफलैः शाके : कृष्णपक्षे च सर्वदा । तत्र कृष्णपक्षे चतुदशौव्यतिरिक्तायां यस्यां कस्याचित्तियों श्रावविधानादमावास्यापि लभ्यत इत्यत्र को विशेष इत्यत्राह स एव "अत्रेन्दुराधे प्रहरेऽवतिष्ठते चतुर्थभागोनकलावशिष्टः । तदन्त एव चयमेति कृत्स्नमेव ज्योतिश्चक्रविदो वदन्ति” ॥ अत्र मास -
For Private And Personal Use Only