________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रावतत्त्वम् ।
२६५
।
श्राद्धं कुर्य्याद्विचक्षणः । कृष्णपक्षापराह्णे तु रौहिणन्तु न लङ्घयेत्” ॥ इति वायुपुराणात् । श्रत्र शुक्लपक्षस्येति श्रङ्गाङ्गि भावबोधकषष्ठीनिर्देशात् शुक्लपक्षत्वमात्रेण यद्दिहितं माघपौर्णमास्यादिपार्वणश्राद्धं तदेव पूर्वाह्णे कर्त्तव्यम् । श्रतएव कृष्णपचत्वेन विहिताविहितपार्वणयोरविशेषेणापराह्न कर्त्तव्य: त्वात् । कृष्णपचे षष्ठोनिर्देशो न कृतः । अतो मृताहविहितपार्वणसपिण्डीकरणायोः शुक्लपचकृष्णपक्षयोरविशेषेणैवापराह्न कर्त्तव्यता । अत्र पूर्वाह्नपदं सङ्गवपरम् । " प्रातःकालो मुहतांस्त्रीन् सङ्गवस्तावदेव तु । मध्याह्नस्त्रिमुहर्त्तः स्यादपराह्णस्ततः परम् ॥ सायाह्नः स्त्रिमुहत्तेः स्याच्छ्राद्धं तत्र न कारयेत् । राक्षसौ नाम सा वेला गर्हिता सर्वकर्मसु ॥ इति मत्स्यपुराणवचने मध्याह्नापेक्षया परकालस्यापराह्नत्ववत् तत् पूर्वकालस्यैव सङ्गवापरनाम्नः पूर्वाह्नत्वप्रतीतेः अतएव ब्रह्मपुराणेन मत्स्य विष्णुपुराणोक्तप्रातः कालादिभेदेन वृयादिश्रावमुक्तम् अत्रापि सङ्गवमनभिधाय यत् पूर्वाह्न इत्युक्तं तत् सङ्गवपरम् अत्र पूर्वाह्न श्राद्धमभिधाय रोहिणन्तु न लङ्घयेदित्यभिधानेन पूर्वाह्रश्राद्धस्य सङ्गवात् परो रोहिणपर्यन्तगौण पूर्वाह्न काल: प्रतीयते । तेन रौहिणः पूर्वाहृश्राहस्य गौणकालत्वेनोत्तरावधिः अपराह्न श्राह्नस्य पूर्वावधिरित्यवगम्यते । ततश्च पूर्वदिने सङ्गवात् परं रौहिणपय्र्यन्तं तिथेर्लाभे परदिने मुहर्त्तत्रयमात्रे तत्तिथिलाभे पूर्वदिने श्राद्धं रोहिणान्तरूपगौणपूर्वाह्लाभात् न परदिने तथात्वाभावात् ! उभयदिने सङ्गवलाभे परदिने शुक्लपचे तिथिर्ब्राह्मेति वचनात् । रोहिणन्तु दिवसस्य नवममुहूर्त्तस्तस्य ज्योतिषोक्तरोहिणीदेवतत्वात् रौहिणत्वमिति । एवञ्च "ऊई मुहर्त्तात् कुतपात् यन्मुहर्त्तचतुष्टयम् । मुहर्त्त पञ्चकं वापि स्वधाभवन मिष्यते” ॥ इति मत्स्यपुराणे आप
२३
For Private And Personal Use Only
•