________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रादतत्त्वम् ।
२५३ शुक्लप्रतिपदादिदर्शान्तः "चान्द्रः शक्लादिदन्तिः सावनस्त्रिशतादिनः। एकराशी रविर्यावत् कालं मासः सभास्करः ॥ इति वचनात् समासो रविणा लवितस्तत्र राश्यन्तरसंयोगाभावे नातिकान्तो मलिम्लचो भवति । तथा "असंक्रान्तमासो. ऽधिमासः स्फट: स्याहिसंक्रान्तमास: क्षयाख्यः कदाचित्" इति असंक्रान्तमासो मलमासः तत्र तस्य वैशाखादित्वेन यहिहितं कत्र्तमुचितं तत् प्रकृतवैशाखादौ कर्तव्यम् । अत्र सपिण्डीकरणान्तस्य कर्तव्यत्वमाह लघुहारौतः। “असंक्रान्तेऽपि कर्त्तव्यमादिकं प्रथमं हिजैः। तत्रैव मासिकं पूर्व सपिण्डीकरणन्तथा" ॥ प्राब्दिकं सपिण्डीकरणम्। तत्रैव प्रसंक्रान्त एव रवौ। सपिण्डीकरणात् पूर्व मासिकं कर्तव्यं तथाच सपिण्डीकरणमिति पञ्चम्यर्थे प्रथमा। पूर्वपदं सपिण्डनोत्तरपार्वणाख्यमासिकश्राद्धनिषेधार्थम् । यत्तु “जातकम्मणि यत् श्राद्ध दर्शाई तथैव च। मलमासेऽपि तत् काय व्यासस्य वचनन्तथा ॥ इति तत् पिण्डपिटयज्ञाख्यश्राद्धपरम्। “इन्द्राग्नी यत्र इयेते मासादिः स प्रकीर्तितः । अग्नीसोमो मती मध्ये समाप्तो पिटसोमको ॥ तमतिक्रम्य तु रविर्यदागच्छेत् कथञ्चन । आद्यी मलिम्लचो ज्ञेयो द्वितीयः प्रकृतः स्मृतः ॥ इति लघुहारोतवचनाभ्यामेकवाक्यत्वात् । तथापि शक्लप्रतिपदि इन्द्राम्नौयागः। कृष्णप्रतिपदि अग्नीसोमयागः। एतौ दर्शपौर्णमासान्तर्गतौ पिढविशिष्टसोमदेवताकोऽग्नौ करणहोमः पिण्डपियनाङ्गभूतो दर्श विहितः । मासादिसमाप्तिकीर्तनात् शतप्रतिपदादिदर्शान्तो मासशब्दार्थः तं पिण्डपिटयज्ञाख्यथाहयुक्त माप्तमतिक्रम्य रविर्यदा गच्छद्रान्वन्तरसंयोगमियात् तदाद्यो मलिम्बुचः। द्वितीयः प्रकृतः शुद्धः कमाई इति यावत्। ततश्च एकवाक्यत्वानु
२२
For Private And Personal Use Only