________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
वाहतत्वम् ।
२३४ तन्त्रेणैव तानि कुर्यात् लाघवात प्राग्नेयादित्रितयेषु प्रयाजादि तन्वतावत् किन्तु पिटपक्षास्त तदर्भेषु करमार्जन लेपमागिनो बुद्द प्रपितामहादी स्त्रोनुद्दिश्य कर्तव्यम् । "न्युप्य पिण्डां स्ततस्तांस्तु प्रयतो विधिपूर्वकम् । तेषु दर्भेषु तं इस्तं नि मृज्याल्लेपभागिनाम्" इति । “लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । पिण्डदः सप्तमस्तेषां सापिण्डंग साप्तपौरुषम् ॥ इति स्थानहयस्थ मनुवचनाभ्यां सहैकवाक्यत्वात् । तदपि दर्भाणां मूले। “दक्षिणाग्रेषु दर्भेषु पुष्य. धपसमन्वितम्। स्वपित्रे प्रथम पिण्डं दद्यादृच्छिष्टसन्निधौ। पितामहाय चैवाथ तत्पिचे च ततः परम्। दर्भमूले लेपभुजस्तर्पयेल्लेपघर्षणैः। पिण्डैर्मातामहां स्तहत्गन्धमाल्यादि. संयुतैः। प्रोणयित्वा हिजाग्राणां दद्यादाचमनन्ततः” । इति विष्णुपुराणात् नचैतत् पाठक्रमान्मातामहपिण्डदानात् पूर्व लेपघर्षणमिति वाच्यम्। “दर्भषु मधुमध्विय क्षत्रमी मदन्तेति जपित्वा बों स्त्रीन् पिण्डान् दद्यादवनेनिज्येति" मोभिल सूत्रे “दर्भषु त्रीं स्त्रोन् पिण्डानवनेनिज्य दद्यात्" इति कात्यायन गृह्ये च वीं स्त्रौनिति वौसादर्शनात् षट पिण्डदानमध्ये पिण्डदानेति कर्तव्यता व्यतिरिक्तानां निवृत्तिः प्रतीयते। अतएव पिटदयिता श्राद्ध कल्पतरुप्रभृतिषु षट पिण्डदानानन्तरमेव करघर्ष गा लिखितम् । विष्णु पुराण दर्भमूल विधायक न तु मातामहादिपिण्ड दानपूर्वक कर. घर्षणक्रमविधायकम् अन्यथा प्रत्यवनेजनदानादेः प्रागपि तदुक्त ब्राह्मणाचमनापत्तेः। पुष्पधूप समन्वितपिण्डदान शाखिभेदपरमिति। अतो मातामहपक्षे न करमार्जनम् । एकोद्दिष्टे तु लेषभुजामसम्भवेऽपि निरुद्देश्य करमार्जनाचमन हरिस्मरणानि कार्याणि साधारण प्रवृत्त प्रागुक्त ब्रह्मपुराशन
For Private And Personal Use Only