________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२३८
श्रादतत्वम् । मातामहादौनुपक्रम्य अवनेजनवत् पिण्डान् कृत्वा विल्व. प्रमाणकानिति श्रुतेश्च सामगयजुर्वेदिनोविल्वप्रमाणकत्वम् । “पृथनातामहानाञ्च केचिदिच्छन्ति सत्तमाः। नोन् पिण्डानानुपूर्वेण साङ्गुष्ठ मुष्टिबन्धनान्” इति वायुपुराणीय शाख्य. न्तरोयम् । तत: षट् पिण्डान्मधु कृताभ्यां सेचयेत्। 'अभ्यज्य मधुसर्पिा तान् वपेत् कुशसञ्चय" इति देवलवचनात् । वपेविर्वपदुत्सृजेदिति यावत् तान् पिण्डान् ततोमधुमध्विति सूत्रोतन मधुसम्बन्धि मधु प्रकाशक सब्रियोग शिष्ट प्राप्त मधुवातेति ऋक्वयं मधुमधुमधु च जपित्वा पितुर्नाम रटहोत्वा सरह्योक्तविधिना पिण्ड दद्यात्। एवमेव प्रत्येक जलस्पर्श पूर्वकं पितामहादिपञ्चभ्यस्तत्तदवनेजनस्थाने पिण्डान् दद्यात् । “मूलमध्याग्रदेशेषु ईषत् शतांश्च निर्वपत्" इति छन्दोगपरिशिष्टात् ईषत् शलान् पिण्डानित्यर्थः । ___ततो दर्भेषु कर समाज्यं प्रक्षाल्याचम्य हरि स्मृत्वा पुनरखनेनिज्य अत्र पितर इति जपदित्या ब्रह्मपुराणम् । “ततो दर्भेषु विधिवत् सम्माज्यं च करन्ततः। प्रक्षाल्य च जलेनाथ बिराचम्य हरि स्मरेत्। वेभ्यः संसवपात्रेभ्यो जलेनैवावनेजनम्। दत्त्वान पितरश्चेति पठेच्चोदङ्मुखस्थितः। चिन्नयंश्च पितृ स्तुष्टान् सर्वान् भास्वरमूर्तिकान्। प्रमोमदन्त पितरस्त्विति पश्यन् धिया पठेत्”। पश्यन् प्राग्दत्तान् पिण्डानिति शेषः। यद्यपि करमार्जनादौनि पिढपक्ष उक्तानि तथापि पिटपार्वण एव "मातामहानामप्येव देवपूर्व श्राई कुर्वीतेति' गोभिलसूत्रेण पिळयक्षधर्माविदेशादेकोद्दिष्टादि श्राद्धेऽपि आवाहनादि निषेधानुपपत्त्या पार्वणधर्मातिदेशात् सर्वत्र तानि कार्याणि एवञ्च पार्वणे षट् पिण्डदानानन्तरं सामगेतराभ्युदयकादौ नवपिण्डदानानन्तरच
For Private And Personal Use Only