________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२२३
श्राद्धतत्त्वम् । ब्राह्म गानां श्राव्यत्वेन मधुमध्विति त्रिजपो मधुवातेति मन्त्रसहितो गायत्रौजपानन्तरं क्रियते सोऽवाभ्युदयिकाई मधुवातेति मन्त्रवर्जित इति श्राइविवेकवद्याख्यानात् । “गायत्री त्रिसकदापि जपेयाहृतिपूर्विकाम्। मधुवाता इति वाचं मध्वित्येतत् त्रिकं जपेत् ॥ इति मिताक्षरातपारस्करवचनात। देवपूर्व पिटभ्योऽन्न माज्यपूतं मधुम्लतम्। मन्त्रितं पृथिवीत्येवं मधुवाते त्यचं जगौ” इति ब्रह्मपुराणात्। “अन्न मधुमयं कृत्वा मधुवाताभिमन्वितम्" इति यमवचनात् । "अद्भिग्भ्यक्ष्य दद्याटालभ्य" इति हारौतवचनात्। पालभ्य स्पृष्ट्वा “अतो मधुरतातन्तु मोष्णमन्न तिलान्वितम् । गृहीत्वा दक्षिणेनैव प्रगावेनैव तत् पुनः ॥ एतहोहनमित्य वा विश्वान् देवांश्च मंयजेत्। पिटभ्यश्च ततो दद्यादद्रमामन्त्रणेन तु। अमुकामुकगोवैतत्तुभ्यमन्त्र स्वधा नम:” ॥ इति ब्रह्मपुराणवचनाच । अत्र "सोष्णभागा हि पितरः” इति श्रुतिदर्शनात् । सोणमित्य तम् अतएव मनुः । “यावदुष्णं भवत्यन्नं यावदश्नन्ति वागयताः । तावदश्नन्ति पितरो यावत्रोक्ता हविगुणा:” ॥ अत्र वागयतत्वाभिधानेनैव श्राद्धभोक्तृणां हविर्गुणानभिधाने सिद्ध यावन्त्रोक्ता हविर्गुणा इति पुनर्वचनम् इङ्गितादिना गुगा प्रतिपादननिषेधार्थम् । अत्र पृथु कादौनामुष्णत्वं नापेक्षितम्। आपस्तम्बे न पर्युषितस्यापि प्रतिप्रसूतत्वात् । तथा च प्रतिषिडसुपक्रम्य आपस्तम्बः । “कृतान्न पर्युषितं पृथुकतण्डुलकरम्भशत लाजपिष्टकक्षौरविकारौषधिवर्जम्” इति दैवे तिलान्वितमिति शाख्यन्तरोयम्। एषु वचनेषु मधुम्लतं मधमयं मधुरतात मिति श्रुत्या मध्वित्येतत् त्रिकं जपेत् इति पारस्करवचनाच मधुमध्वितित्रिजप इत्यस्य मधुव्यसम्बन्धिमध्विति निजप इति व्याख्येयं न तु मधुमध्वि त्यस्य निर्जपः
For Private And Personal Use Only