________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२२४.
श्राद्धतत्त्वम् । मधुवाताभिमन्त्रितमिति । मधुवातेति ऋक्येणाभिम• न्वितम् । तिसृणामासामृचां युगनडवाहितयैव सर्वत्र प्रयोगदर्शनान् । अभिमन्त्रणमाभिमुख्येन मन्त्रपाठः । तच्च अभिमन्त्रणीयं स्पर्शं विनैव वृषमभिमन्त्रयेदिति वदिति नवौनवर्द्धमानः । एतेन वाचस्पतिमिश्रोक्तमन्नस्पर्शपूर्वकमभिमन्त्रणं हेयम् । तेनैव वृषोत्सर्गे स्पर्शं विनैव वृषाभिमन्त्रमित्युक्तम् ।
"
अथ विहिताविहितद्रव्याणि । वायुपुराणे । “कृष्णाभाषास्तिला श्चैव श्रेष्ठाः स्युर्यवशालयः” । शालिहैमन्तिकं धान्यं तत् प्रभवतण्डलादि । अथ वृष कष्टप्रभवधान्येन वैधकीकरणं तथा च हरिवंशे शक्रं प्रति सुरभिवाक्यम् । “कर्षकान् पुङ्गवैर्वा होर्मेध्येन हविषासुरान् । श्रियं शक्तत् प्रवृत्तेन तर्पयिष्यामहे वयम्” ॥ वायुपुराणं "विल्वामलमदोकापनसाम्रातदाड़िमम् । भव्यं पाणियताचोड़ खर्जरात्रफलानि च । कशेरुकोविदारश्च तालकन्दं तथा विषम् ॥ मृद्दोका द्राक्षा भव्यं कामरङ्ग पाणिवतं करमर्दकम् प्राचोड़ जम्बौराकारफलम् आचोड़ काश्मीरादौ प्रसिद्धम् । कोविदार: श्वेतकाञ्चनसदृश इति श्राद्धविवेकः । तालकन्द तालमूलौति प्रसिद्धम् विषं मृणालम् । मनुः । “तिले चियवैर्माषैरह्निर्मूलफलेन वा । दत्तेन मासं प्रौयन्ते विधिवत् पितरो नृणाम” ॥ ब्रौहिः शरत्पक्कधान्यम् । याज्ञवल्काः । " हवि - ध्यानेन वै मासं पायसेन च वत्सरम् । मात्स्यहारिणकौरवशाकुनिच्छागपार्षतैः ॥ ऐणरौरववारा हशशैमांसैयथाक्रमम् । मासवृद्याभिटप्यन्ति दत्तेनेह पितामहाः " ॥ हविष्यान्नेन शालिब्रोह्यनेन मात्स्येति मत्स्यादिमांसैः उरभ्रोमेषः शकुनिविहितलावकादिः पृषतश्चित्रमृगः एणः कृष्णमृगः रुरुहुशृङ्गी
For Private And Personal Use Only