________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रादतत्त्वम् ।
२२१ श्रुत्यन्तरकल्पनापत्तेश्च हुतशेषं दत्त्वा पात्राभिमन्त्रणं कला अब प्रदद्यादिति योजना कार्या एवेतानादिदानानन्तरं पात्रालम्भनं मैथिलोक्तं निरस्तम्। अतएव पश्चादेवान्नादिपरिवेशनमाह मार्कण्डेयपुराणम् । “हुतावशेषं दद्याच्च भाजनेषु हिजन्मनाम्। भाजनालम्भनं कृत्वा दत्त्वा चान्नं यथाविधि ॥ यथा सुखं जुषड्व भी इति वाच्यमनिष्ठ रम्" इति।
पात्रालम्भनं दैवेऽनुत्तानहस्ताभ्यां पित्रे उत्तानपाणिभ्यां कार्यम् । “दैवेऽनुत्तानपाणिभ्यामुत्तानाभ्याञ्च पैटके" इति यमपचनात्। गोभिलः । “वैषणव्यर्चा यजुषा वाऽङ्गाष्ठमन्त्रे निधायापहता” इति तिलान् विकौर्य उष्णमन्त्र दद्यादिति वैष्णवौ ऋक् इदं विष्णुरित्यादि पूर्वोक्त याज्ञवल्कावचनात् । यजुषा कृष्ण कव्यमित्यादिना “पृथिवी ते पात्रमित्यनममृतं चिन्तयेत् पठन् । कृष्ण कव्यमिदं रक्ष मदीयमिति कौर्तयेत्। एकैकस्वाथ विप्रस्य रहौत्वाङ्गुष्ठमादरात्" इति ब्रह्मपुराणात् कव्यमिति पिटपक्षे हव्यमिति देवपक्षे जहनौयं व्यक्तं ऋग्वेदौयग्रन्थे "विष्णो हव्यञ्च कव्यञ्च ब्रूयाद्रक्षेति वैक्रमात् । मत याज्ञवल्कोयब्रह्मपुराणयोः ऋग्यजुषोः प्रत्ये कमन्त्रोत: गोभिल मूत्र वा शब्दो विकल्पार्थः समुच्चयार्थत्वे निःसन्देहार्थं इन्दादिकमेव निर्दिशेत् एवमेव अनिरुद्धभट्टप्रभृतयः। एतेन मैथिलोक्त समुच्चयार्थो हेयः । ___ परिभाषमाह जैमिनिः। "तेषामृक् यथार्थवशेन पादव्यवस्थितिः” इति तेषां मन्त्राणां मध्ये यनार्थवशेन एकान्वयत्वेनानुष्टबादि पादस्थितिः सा ऋक् यजुः परिभाषामपि स एवाह “शेषे यजः शब्द" इति शेषे ऋक्सामभिन्ने मन्त्रजाते सामपरिभाषामाह स एव “गौतिषु सामाख्या” इति गौतिषु
For Private And Personal Use Only