________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२२०
यातत्त्वम् ।
अन्येषामिति ग्रहणात् तत्पात्रे हुतशेषं न देयमिति श्राह
विवेकः ।
अथ हुतशेषदानम् । तत्र गोभिलः । “हुतशेषं दत्त्वा पात्रमालभ्य जपति पृथिवी ते पात्रं द्यौः पिधानं ब्राह्मणस्य मुखेऽमृतेऽमृतं जुहोमि स्वाहा " । इत्यत्र पात्रमात्रश्रुतेर्विश्वदेवपात्र ेऽपि हुतशेषदानं प्रतीयते । यत्तु यमवचनं श्रग्नौ - करणशेषन्तु पित्रे तु प्रतिपादयेत् । प्रतिपाद्य पितॄणान्तु न दद्याद्देव देविके” इति तत् पित्रेत्विति तु रप्यर्थो न तु नियमार्थः अतएवोत्तरार्धेन पितृदानानन्तरं विश्वदेवदानं निषिध्यते न तु विश्वदेवदानानन्तरं पितृदानं निषिध्यते समुद्रकरष्टतस्मृतावपि । “अनाहिताग्नेविप्रस्य यदग्नीकरणं हुतम् । विश्वदेवाय दातव्यं पश्चात् पित्र निवेदयेत्” इति । हृतशेषं पात्रेषु दत्त्वा पिण्डार्थमवशेषमाह यमः । “हुतो - च्छिष्ट ब्राह्मणेभ्यः प्रदाय पिण्डार्थमवशेषयेदिति” हारौतोऽपि “अग्नौकरणशेषन्तु पिण्डार्थमवशेषयेदिति” । एवञ्च हुतशेषमात्रप्रतिपादानात् गोभिलेन हुतशेषं दत्त्व त्यत्र तथाभिधानात् पारस्करेण च हुतशेषं दत्त्वा पात्रमालभ्य जपति पृथिवी ते इत्यनेन तथैवाभिधानाञ्च मन्त्रे चामृतमित्यनेन “अमृतं विघषो यज्ञशेष भोजन शेषयोः” इत्यमरसिंहोक्तात् यज्ञशेषमात्रप्रतीतेः तत् प्रक्षेपानन्तरमेव छन्दोगयजुर्विदोः पावालम्भनं तदनन्तरमन्त्रादिपरिवेशनम् एवमेव अनिरुद्द मह प्रभृतयः । यत्तु “हुतशेसं प्रदद्यात्तु भाजनेषु समाहितः । यथा लाभोपपन्नेषु रौप्येषु तु विशेषतः ॥ दत्त्वान्न पृथिवी - पात्रमिति पात्राभिमन्त्रणम् । कृत्वेदं विष्णुरित्यने द्विजाङ्गुष्ठ निवेशयेत्” ॥ इति याज्ञवल्कयवचनेन हुतशेषमन्त्रान्तरच दत्त्वा पात्रालम्भनमुक्त तच्छाख्यन्तरौयं मन्त्रलिङ्गविरोधात्
For Private And Personal Use Only