________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२१७
श्रावतत्त्वम् । मूलपत्रपुष्यफलप्ररोहरसगन्धानां सादृश्येन प्रतिनिधिं कुर्यात् सर्वालाभे यवः प्रतिनिधिर्भवतीति" काण्ड नालं प्ररोहोऽङ्करः सर्वालाभे यव इति कल्पतरुः। अवयव इति नारायणोपाध्यायाः । तथा च वस्त्रयुग्माभावे खण्डवस्त्रं देयमिति ।
अथ पात्रस्थानम्। ततो मण्डलं कृत्वा ताम्रादिपात्रं पातयेत् तत्र भृगुः भस्मना वारिणावापि कारयेन्मण्डलं ततः ॥ मण्डलं चतुष्कोणम् अत्र दैवे ऐशानौमारभ्य देवत्वात् दक्षिसावर्तन प्रागग्रान्तरेखया वायवौमारभ्य उदगग्रान्तरेखया वा मण्डलं कारयेत् । प्रागुदगग्रेति कात्यायनदर्शनात पिता तु नैऋतिमारभ्य पिटवाहामावर्तेन दक्षिणाग्रान्तरेखया मण्डलं विन्यस्य पात्रे दक्षिणाग्रा” इति च कात्यायनसूत्रात् नव्यवईमानोऽप्येवम्। मण्डलाकरणे दोषमाह स्मृतिः। “अनञ्च मण्डलैहीनं राक्षसभुज्यते बलात्” ।
अथ पावाणि। तत्र हारोतः। “काञ्चनेन तु पात्रेण राजतोडुम्बरेण वा। दत्तमक्षयतां याति खङ्ग नायकतेन च"। औडुम्बरेण ताम्रण । खड्न गण्ड कशिरोऽस्थिनिर्मितेन पार्यकतेन व वर्णिकलतेन अन्यदपि पात्रमभिमतमिति कल्पतरुः । एवं कदलीत्वगादौन्यपि ब्रह्मपुराण "सौवर्णरौप्यताम्राश्म स्फाटिक्य शङ्खशुक्तयः। भिन्नान्यपि नियोज्यानि पात्राणि पिढकर्मणि" ॥ कल्पतरौ। “राजतं रजतात वा पितृणां पावमुच्यते। रजतस्य तथा दानं दर्शनं नाम शस्यते" ॥ दैवे तु तविषिष्टम् । “अथार्य पिण्डभोज्येषु पितृणां राजतं मतम् । अमङ्गल्यन्तु रजतं देवकार्येषु वर्जयेत् ॥ इति वायुपुराणात्। याज्ञवल्काः । “हुतशेषं प्रदद्यात्तु भोजनेषु समाहितः। यथा लाभोपपन्नेषु रौप्येषु च विशेषतः" ॥ शातातपः। “पान तु मृण्मये यस्तु श्राद्धे
For Private And Personal Use Only