________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् । राहे तु पैटकमित्युमर्गवचनमेव मानम्। किञ्च । यद्यप्यदतकः पूषा पैष्टमत्ति सदा चरुम्। अग्नौन्द्रखरसामान्या. सालोऽत्र विधीयते । ति छन्दोगपरिशिष्टे यथा बहनामनुरोधात्तण्ड लचर्ने कानुरोधात् पैष्टचसः 'विरुद्धधर्मसमवाये भूयसां स्यात् सधर्मकत्वम्' इति जैमिनिसूत्राञ्च तहदनापि बहुदेवताकपार्वणानुरोधादेकोद्दिष्ट कालवाध इति। एवं संवसरमधिकृत्य । “सपिण्डौकरणं तस्मिन् काले राजेन्द्र तच्छणु। एकोद्दिष्टविधानेन कार्य तदपि पार्थिव । इति विष्णुपुराणीयमेकोद्दिष्टांश तदितिकर्तव्यतापरं नतु तत्काल परं तथाच परिशिष्ट प्रकाशकृतम्। “श्राद्धयमुपक्रम्य कुर्वीत सहपिण्डनम्। तयोः पार्वणवत् पूर्वमेकोद्दिष्टमथापरम्" ॥ इति शङ्खवचनान्तरं यत्र च प्रथमषण्मासाभ्यन्तरे मलमासपातेऽपि षष्ठमासिकपूर्वतिथिरेव प्रथमषाण्मासिकस्य काल: एकाहन्यू नषण्मासे तस्य विधानात् । हितोयस्य तु त्रयोदशमासिकपूर्वतिथिः एकाहन्यूनसंवत्सरे विधानात् यथा छन्दोगपरिशिष्टम्। “एकाहेन तु षण्मासा यदा स्थरपि वा त्रिभिः । न्यूना: संवत्सरचैव स्यातां पाण्मासिके तदा" ॥ संवत्सरच बयोदशभिरपि मासैभवति। तथाच श्रुतिः। हादशमासाः संवत्सरः कचित्रयोदशमासा: संवत्सरः इति। अत्र कालमाधवीयकृतेन। “पाण्मासिकाब्दिके श्राद्धे स्यातां पूर्वेधुरव ते। मासिकानि खकौये तु दिवसे हादशेऽपि च” ॥ इति पैठौनसिवच नै कवाक्यत्वात्। एकान्य नपदेन मृततिथिपूर्वतिथेग्रहणम्। एतच पूर्वमृततिथिं विहाय अपरमृतिथिमादाय मासवर्षगण नया सिद्धम्। एतेन पूर्वमृततिथिमादाय मासवर्षगणनया मृततिथेः पूर्वतिथिं विहाय तत् पूर्वदिने मैथिलानां यत् पाण्मासिकद्दयकरणं तद्धेयमेव । अत्र
For Private And Personal Use Only