________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२००
श्राद्धतत्त्वम्।
एकोद्दिष्टे विश्वदेवकरणाकरणयोः शाखिभेदेन व्यवस्था। तत्र सामगयजुविदोह्यानुसारात् विश्वदेवरहितत्वं साग्ने ग्वेदि. नोविखदेवसहितत्वं तद्ग्रह्यपरिशिष्टोक्तत्वात् यथा “यस्मिन्नवे पुराणे वा विश्व देवा न लेभिरे। प्रारं तद्भवैच्छाई वृषलं मन्त्र वर्जितम् ॥ इति । “काम्यं कामाय तु हितं काम्यमभिप्रेता थसिद्धये । पार्वणेन विधानेन तदप्यक्तं खगाधिप" इति भविष्य पुराणोतं काम्यश्राद्धे कामाय इत्यनेनैवाभिप्रतार्थलाभे अभिप्रेतार्थसिद्धय इति यत् पुनरुपादानं तत् स्वगतपुवादिफलोद्देश्यकत्वेन तिथ्यादि श्राद्धानामेवात्र काम्यत्वार्थम् अत:संक्रान्त्यादिः श्राहादस्य भेदः । एवञ्च संक्रान्त्यादिश्राद्ध पिटहप्तेः प्राधान्य पुत्रादेः फलस्यानुषङ्गिकत्व तिथ्यादिश्राद्धे तु पुत्रादेः फलस्य प्राधान्यं पिटप्रानुषङ्गिकफलत्वमिति देवविशेषवाचकस्य अपि पुरूरवस ऊकारमध्यता पितुदयिता-बालकाण्ड-कल्पतरुमैथिलग्रन्थप्राचीनथादविवेकेषु तथा लिखनात् रायमुकुटप्रभृतिभिरेव पुरोरूयन्त इति स्वकपोलरचित व्युत्पत्त्या ओकारयुक्तः पाठः कृतः। स तु राजविशेषवाचकः । . अथासनम्। तत्र विशेषमाह देवलः। “ये चात्र विश्व देवार्थ विप्राः पूर्व निमन्त्रिताः। प्राङ्मुखान्यासनान्येषां विदर्भोपहितानि च ॥ दक्षिणामुखयुक्तानि पितृणामासनानि च। दक्षिणायैकदर्भाणि प्रोक्षितानि तिलोदकैः” ॥ प्रान. खत्व दक्षिणामुखत्वञ्चाग्रभागापेक्षया ज्ञेयम् एषां विखदेवब्राह्मणानां पितृणां पिटब्राह्मणानामेतञ्चासनं ब्राह्मणोपवेशनाथं नतु विश्वदेवार्थ पित्राद्यर्थवा तथा च यमः। “ततः सिद्धमिति प्रोच कल्पिते. प्रासने तथा। पासवमिति तान् ब्रूयादासनं संस्मृशन्नपि” इत्यत्र कल्पितासनस्य ब्राह्मणोपवेशन एवोपयोगावगतेविखदेव पित्राद्यर्थासनन्तु कुशवयात्मकमेव
For Private And Personal Use Only