________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्राइतत्त्वम् ।
पाणिप्रचालनं दत्त्वा विष्टरार्थं कुशानपि " श्रावाहयेदनुज्ञातो विश्वे देवा स इत्यचा । तथा हिगुणांस्तु कुशान् दत्त्वा उशन्तस्त्वेत्युचा पितॄन्” इति याज्ञवल्कयोक्तेः प्रचाल्यतेऽनेन इति प्रचालनं जलं तेन तृष्णों ब्राह्मणपाणौ जलं दत्त्वा विष्टरार्थमासनार्थमिति दोपकलिका । कुशान् ऋजून् दद्यात् हिगुणानित्युक्तः ।
अथ दर्भाः । ब्रह्मपुराणे "सपिज्जलाश्च हरिता: पुष्टाः स्रिग्धाः समाहिताः । गोकर्णमात्राश्च कुशा: सक्कच्छित्रা: समूलका: ॥ पिटतोर्थेन देयाः स्युदूर्वाश्यामाक एव च । काशाः कुशा वत्वजाश्च तथाम्धे तौक्षारोमशाः ॥ मौजाच शालाश्चैव षड्दर्भाः परिकीर्त्तिताः ॥ तौक्ष्णरोमशा इति वल्वजानां विशेषणं तेन तेषामलाभ "शूकटाशरशीयुतवल्वज उलपशुण्ठवर्जं सर्वटणानोति” गोभिलेन तद्दातिरिक्तवल्वजानां निषेधो बोद्धव्यः । सपिञ्जलाः साग्राः स्निग्धा अकर्कशः पुष्टा न सूक्ष्माः समाहिता निर्दोषा शाइला इति मौञ्जस्य विशेषणं शूकानि फलपुष्पमज्ञ्जय्र्यस्ता येषां तृणानां सन्ति तानि शकटणानौति भट्टनारायणचरणा: गोकणमात्रा विस्तृताङ्गुष्ठानामिका परिमिताः । विष्णुः । “कुशस्थाने काशं दूवीं वा दद्यादिति” कृतमुष्टिहस्तपरिमिताः कुशाः प्रस्तरणार्थाः तथा च वायुपुराणम् । “रनिप्रमाणाः शस्ता वै पितृतीर्थेन संस्कृताः। उपम्यले तथा लूनाः प्रस्तारार्थे कुशोत्तराः ॥ वर्ज्य कुशानाह हारीतः “चितौ दर्भाः पथिदर्भा ये दर्भा यज्ञभूमिषु । स्तरणासनपिण्डेषु षड्दर्भान् परिवर्जयेत् ॥ पिण्डार्थं ये स्तुता दर्भा यैः कृतं पितृतर्पणम् । मूत्रोच्छिष्टप्रलेपे तु त्यागस्तेषां विधीयते” ॥ छन्दोगपरिशिष्टम् । “धृतेः कृते च विण्मूत्रे त्यागस्तेषां विधीयते ।
""
For Private And Personal Use Only
२०१