________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८६
श्राड तत्त्वम् ।
उपवेशनमाह गोभिलः। "नातान् शुचौनाचान्तान् प्रान,खान् उपवेश्य दैवे युग्मान यथाशक्ति अयुग्मान् पिवेत्र एकैकस्योदम खान् हो दैवे नौन् पैत्रे एकैकमुभयत्र वा। मातामहानामप्येवं तन्वं वा वैश्वदैविकम् । देवपूर्वं श्राद्धं कुर्वीत" इति स्नातानवगाहितान् न तु मन्त्रस्नातान् । शुचौन् सूतकादिरहितान् एवं प्रयतत्वादियुक्तानां ब्राह्मणानां टर्भासने स्वागतप्रश्नपाद्यादिना पास नस्पर्श हस्तग्रहणपूर्वकम् उपवेशनानि कार्याणि एवं प्रयतोऽपराहे शुचिःशुलवासा दर्भेषुतिष्ठन् एवं स्वागतमिति ब्रूयात् “पाद्यायाचमनीयोदकानि दत्त्वा ब्राह्मणानुपसंग्टह्य उपवेशयेदासनमालम्य" इति शङ्खलिखितवचनात् । स्वयमपि सूतकादिरहितः स्नातः कतदेवपूजान्तनित्य कत्यः । अत्र श्राइदिने अङ्गेषु तैलं न ग्राह्यम्। तथा च स्मृतिः। “प्रातःस्नाने पिटवारे षष्ठयाच हादशीषु च । सुरामानसमं तैलं पितरं नरकं नयेत्॥ वृतञ्च सार्षपं तैलं यत्तैलं पुष्पवासितम्। अदुष्ट पक्कतैलञ्च तैलाभ्यने च नित्यशः” ॥
ततश्च प्रथमं प्रान खः स्थित्वा पादौ प्रक्षालयेच्छनैः। उदम खो वा देवत्ये पैट के दक्षिणामुखः” इति देवलवचनात् दक्षिणामुखः सन् कृतपादशौचस्तत्रापि वामपादादिक्रमः । यथा गोभिल: “सव्यं पादमवने निजे" इति वामयादं प्रक्षालयति “दक्षिणं पादमवने निजे" इति दक्षिणं पादं प्रक्षालयति इति। कात्यायनोऽपि "सव्यं प्रक्षाल्य दक्षिण प्रक्षालयतौति” तेन यजुर्वेदिनामपि प्रथमं वामपादप्रक्षालनं एवं शूट्रस्यापि ततो दक्षिण पाणी पवित्र वामे बहुतर कुशान् धारयेत् “मध्यः सोपग्रहः कार्यो दक्षिणः सपवित्र कः” इति छन्दोगपरिशिष्टात् ततः प्रामुख उद खो वा कृताचमन्तः
For Private And Personal Use Only