________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
आवश्यक पर्वादिक्रियमाणस्य नित्यनैमित्तिकत्वम् । व्यक्तमाह मार्कण्डेय पुराणम्। "नित्य नैमित्तिकं ज्ञेयं पर्ववाहादि पण्डितैः” इति एवञ्च पशौचान्तात् द्वितौयेऽहोत्यादिकस्य कालविशेषस्य निमित्तत्वेनोल्लेखः सङ्गच्छते । " मासपक्षतिथीनाञ्च निमित्तानाञ्च सर्वशः। उल्लेखनमकुर्वाणो न तस्य फलभाग्भवेत् । इति ब्रह्माण्ड भविष्यपुराणोक्तेः । निमित्तानामुत्पत्तिविधिसमभिव्याहृत नियतानां न तु प्राशस्त्वनोक्तानाम् अत्र चकारद्दयश्रुतेर्मासादीनां पृथक्निमितानाञ्चोल्लेखः । न तु मासपक्षतियौनां निमित्तौभूतानामेव ।
अत्र च वैदिकक्रियानिमित्तस्य कालविशेषस्य शुचितत्काल जोवित्वेनाधिकारिविशेषणौभूतस्यान्ते या सप्तमौ सा नाधिकरणे यो जटाभिः स भुङ्क्त इतिवत् कालस्य विशेषणत्वेन तृतौयाप्राप्तः किन्तु कालभावयोः सप्तमौत्यनेन तद्दाधिका पुनः सप्तमौ विधीयते शरदि पुष्पान्ति सप्तच्छदा इतिवत् । अतः कत्तृविशेषणौभूतस्यापि कालस्य वैदिकक्रियाया निमित्ततयोल्लेखः क्रियैव काल इति मतेतु सुतरां नाधिकरणता सूय्यादिक्रियाया कर्त्तव्यस्य कर्मणो अधिकरणतानुपपत्तेरिति पूर्वाहादेस्तु प्रशस्तत्वेन निमित्ततया नोल्लेख इति । युग्मादरस्तु दैवकृत्य एव न पिटकत्ये 1 तथा च व्यासनिगमौ "हितौयादिकयुग्मानां पूज्यता नियमादिषु । एकोद्दिष्टादिवादी कासयादिदेषणा" ॥ इति एकोद्दिष्टादिवादी एकोद्दिष्टादिश्रादनिमित्तभूत तिथिविशेषस्य वृद्यादौ प्रादावित्यत्रादिशब्दात् क्षयस्तम्भितत्वे ग्राह्ये तथा सति श्राद्धकालस्य सन्देहे ह्रासादिदेषणा ह्रासवृद्धादिविधायको नियामक इति यावत् । अत्र वृद्धिहासौ चन्द्रस्य ताभ्यां शुक्लकृष्णपचौ
For Private And Personal Use Only
-