________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् । र्थकं स्यात्। एतच्च जयन्ती शिवरात्रादिविशेषतरपरम्। यद्यपि “नानं दानं जपःश्राद्धमनन्तं राहुदर्शने। आसुरी रात्रिरन्यत्र तस्मात्तां परिवर्जयेत्” ॥ इति पर्यु दस्तेतर. कालोऽपि कर्मयोग्यस्तथापि, “पूर्वाह्नो वै देवानां मध्य दिनं मनुष्याणामपराह्नः पितृणाम्"। इति श्रुत्युक्त काललामे स एव नियामकः प्रशस्तत्वात्। अतएव “ययास्त सविता याति पितरस्तामुपासते। तिथिन्तेभ्योऽपराहो हि स्वयं दत्तः स्वयम्भुवा" ॥ इति यद्यपरिशिष्टौयेन अस्तगामिन्यास्तिथेः प्रायेणापराह्नसम्बन्धेनापराह्नो हेतुतया निर्दिष्टो नतु पर्युदस्ते तरकालः प्रशस्तकालालामे तु सामान्य कालमादाय युग्मादिना व्यवस्था क्वचित् विशेषवचनादेव रात्रियुग्मादरः यथा । "मध्याङ्गव्यापिनी ग्राह्या एकमक्ते सदा तिथिः । नतादिव्रतयोगे तु रात्रियोगी विशिष्यते” ॥ अत्र युग्मतर कृष्णपक्षप्रतिपदुभयपक्षदशमी त्रयोदशी कृष्ण चतुर्दशो हैधे तु प्रागुक्तशुक्लपक्षे तिथिाह्येत्यादिना वक्ष्यमाण प्रतिपत् सहितौया स्थादित्यादिवचनाद्दावस्था। तिथेः पूज्यकालापेक्षा विधेयकमण्येव निषिद्धे कर्मणि तु तत्तत्तिथिमानापेक्षा। न तत्र पूज्यकालमात्रापेक्षा। तदाह कालमाधवौये वृद्धगायः । “निमित्तं कालमादाय वृत्तिविधिनिषेधयोः। विधिः पूज्यतिथौ तत्र निषेधः कालमात्रके ॥ तिथीनां पूज्यता नाम कर्मानुष्ठानतो मता। निषेधस्तु निवृत्त्यात्मा कालमात्रमपेक्षते ॥" एतद्दचनदयं कलञ्जाधिकरण न्यायमल मिति विकृतमेकादशौतत्वे । कर्मानुष्ठानतः कर्मानुष्ठाने वृत्तिः पालनम्। गायवचनोतनिमित्तमित्यत्र विधिनिषेधयोरनुष्ठानाननुष्ठानरूपपालने कालस्य निमित्तत्वेन अभिधानात्। अतःकालं प्रवक्ष्यामि निमित्तं कर्मणामिह"। इति भविष्यपुगणाच।
For Private And Personal Use Only