________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५
तिथितत्त्वम् । विषयनिर्णयपर एव विधिशेषत्वात्तस्य । एवञ्च पूर्वदिने पूर्वाह्न युग्मसम्बन्धिपरतिथेरप्राप्तौ परदिने च तत्प्राप्तौ तत्तिथिविहितपूजादेः पूर्वाह्णानुरोधात् परदिनकर्त्तव्यत्व प्रतीयते । नतु युग्मानुरोधात् पूर्वदिने । अत्र च । “पञ्चमी सप्तमी चैव दशमौ च त्रयोदशी । प्रतिपन्रत्रमी चैव कर्त्तव्या साम्मुखो तिथिः ॥ इति पैठोनसिवचनस्य तु । “साम्म ुख्य नाम सायाज्ञव्यापिनो दृश्यते यदा" | इति स्कन्दपुराणेन सायाह्न व्यापिनी तिथेः साम्म ुख्य विधानेन पूजादावनवकाशादुपवासपरत्वम् । एवं “त्रिसन्ध्यव्यापिनौ यातु सैव पूज्या सदा तिथिः । न तत्र युग्मादरणमन्यत्र हरिवासरात्” ॥ इति पाराशरोयेण त्रिसन्ध्यव्यापित्वेन नियमाभिधानं तदपवादकमिति सायाज्ञव्यापित्वमपि मूहर्त्तन्यूनत्वेन ज्ञेयम् । " व्रतोपवासस्रानादो घटिकैका यदा भवेत् । सा तिथिः सकला नेया पित्रर्थे चापराह्निको” ॥ इति देवलवचनात् । नन्वहोरात्रसाध्योपवासादौ कुतो न रात्रियुग्मग्रहणं मैवं तत्रापि कर्मार्थं दिवा तदङ्गखानदेवतापूजादोनां कर्मणां कर्त्तव्यत्वाद्रात्रौ च तनिषेधात् दिवायुग्मस्यैव ग्रहणमिति तिथिविवेकः । अतएव जावालः । “अहः सु तिथयः पुण्याः कर्मानुष्ठानतो दिवा । नक्तादि व्रतयोगे तु रात्रियोगो विशिष्यते” ॥ दिवाकर्मानुष्ठाने कर्त्तव्ये अहः सु तिथयः पुण्याः तिथ्यन्तरसंयोगात् पुण्या श्रतः कर्मानुष्ठाने ता एव ब्राह्याः । अन्यथाहर्विहिते कर्मस्यविधानमनर्थकं स्यात् । नक्तादिव्रतयोगे - त्विति निशासाध्यकर्मोपलक्षणम् अत्र रात्रियोगो विशिच्यते रात्रौ तिथ्यन्तरसंयोगो विशिष्यत इत्यर्थः । वस्तुतस्तु पञ्चमौसप्तमौ चैव इत्यादिना विशेषतः सायाज्ञव्यापिनी तिथेग्रहणादुपवासेऽपि न रात्रियुग्मादरः अन्यथा तदभिधान मन
11
For Private And Personal Use Only