________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८३
श्राइतत्त्वम् । मार्कण्डेयपुराणम्। "निमन्वयेच पूर्वद्युः पूर्वोक्तान् हिजसत्तमान् । अप्राप्तौ तहिने वापि हित्वा योषित् प्रसङ्गिनम्" ॥ अत्र प्रशब्दात् क्रियानिष्पत्तिरूपमैथुनकर्तुनिषेधः नतु स्मरगादिरूपमैथुन कर्तृनिषेधः। मैथुनं चाष्टविधं तथाच दक्षः । "स्मरणं कौत्तनं केलिः प्रेक्षणं गुप्तभाषणम्। सङ्कल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव च ॥
श्राइदिने श्राइकर्ता दन्तकाष्ठमखादित्वा हादशजलगण्डषेण मुखं परिशोध्य प्रातःस्नात्वा धौतवस्त्रे विमयात् । "श्राद्दे जन्मदिने चैव विवाहे जौणसम्भवे। व्रते चैवोपवासे च वर्जयेत् दन्तधावनम् ॥ इति विष्णुपुराणात् । “अलामे दन्तकाष्ठस्य प्रतिषिद्धदिने तथा। अपां हादशगण्डषैर्मुखशुद्धिविधीयते । तथैवामन्त्रितो दाता प्रातःस्नातः सहाम्बरः” ॥ इति देवल वचनात् । तथैवामन्वितो तथैव पूर्वोक्तप्रकारेण आमन्त्रितो येन स तथा देवकत्य मुदखुखेन पिटक्कत्यं दक्षिपामुखेन कर्तव्यमाह शातातपः। "उदन खस्तु देवानां पित गां दक्षिणामुखः । प्रदद्यात् पार्वणवारे देवपूर्व विधानत:" ॥ द्विजसत्तमाभावे भविष्यपुराणम्। “यस्वा. सन्नतिक्रम्य ब्राह्मणं पतिताहते। दूरस्थं मोजयेम्म ढ़ो गुणाढ्यौं नरकं व्रजेत् ॥ तस्मानातिक्रमत् प्राज्ञो ब्राह्मणान् प्रातिवेशिकान्। सम्बन्धिनस्तथा सर्वान् दौहित्र विट्पति तथा । भागिनेयं विशेषेण तथा बन्धून् ग्रहाधिपान् ॥ नातिक्रमेवरश्चैतान् सुमूर्खानपि गोपते। अतिक्रम्य महारौद्रं गैरवं नरकं व्रजेत् ॥ ब्राह्मणोऽत्राल्पविद्यः मूर्ख ब्राह्मणातिक्रमे दोषाभावस्य व्यासादिभिर्नास्ति मूर्ख व्यतिक्रम इत्यनेन अभिधानात् । विट्पतिर्जामाता ग्रहाधिपान् ग्राहस्थान् मुमूििनति सम्बन्धिदौहित्रादि विशेषणमिति। दानकल्पतरु
For Private And Personal Use Only