________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
१७७ प्रोक्त पिता तर्पणकमणि। पितुरक्षय्यकाले तु अक्षयां
प्तिमिच्छता" ॥ इति गोभिलवचनान्तगत् पितरित्य व वव्यं ससम्बन्धिकशब्दानां पदिन्यायेन स्वसम्बन्धिपरत्वाच्च नत्वस्मत् पितरिति अन्यथा एतदस्मदनमित्याद्यभिन्लापापत्ते: एवं यजर्वेदिनां पिण्डशब्दो नपुंसकलिङ्गेन प्रयुज्यते यथा वनिता पिण्ड दद्यादमावेतत्ते इति श्राइविवेककृतपिण्डपितयनीयकात्यायनवचने पिण्ड विशेषणत्वे नैतदिति नपुंसकनिर्देशात् “भाषेतैतच वै पिण्ड यज्ञदत्तस्य पूरकम्" । इति ऋष्यशृङ्गवचनेऽपि तथा दर्शनाच पिण्डान दत्त्वा कर सम्माज्य प्रक्षाल्याचम्य हरिं स्मरेदित्याह ब्रह्मपुराणम्। “ततो दर्भेष विधिवत् सम्माज्यं च कर ततः। प्रक्षाल्य च जलेनाथ विराचम्य हरिं स्मरेत् ॥ यद्यपि करमम्माजनादौनि पितपक्षे उक्तानि तथापि पितपावण एव "मातामहानामप्येवं देव पूर्व श्राद्धं कुर्वीत"। इति गोभिलसूत्रेण पिढपक्षधम्मातिदे. शेन एकोद्दिष्टादि श्राद्धेऽपि अावाहनादि निषेधानुपपत्त्या पार्वणधमातिदेशात् सर्वत्र तानि प्राप्तानि किन्तु पार्वणे षट्पिण्डदानानन्तरं सामगेतराभ्युदयिकादौ नवपिण्डदानानन्सरच तन्त्रेणैतानि कार्याणि लाघवात् आग्नेयादिवयेषु प्रयाजादि तन्त्रतावत् तत्रापि पिटपक्षास्तुतदर्भेषु करसम्माजनं लेपभागिनो वृद्धप्रपितामहादों स्त्रोनुद्दिश्य कर्तव्यं “न्यप्य पिण्डां स्ततस्तां स्त्रोन प्रयतो विधिपूर्वकम्। तेषु दर्भेषु तं हस्त प्रमृज्याल्लेपभागिनाम् ॥ लेपभाजचतुर्थाद्याः पित्राद्या: पिण्डभागिनः। पिण्डदः सप्तमस्तषां सापिण्ड साप्तपौरषम् ॥ इति यथास्थानस्थमनुवचनाभ्यां सहैकवाक्यत्वात् इति तदपि दर्भाणां मूले “दक्षिणाग्रेषु दर्भेषु पुष्पधूप समन्वितम्। स्वपित्रे प्रथमं पिण्ड दद्याच्छिष्टसन्निधौ ॥ पितामहाय चैवाथ तत्पित्रे च ततः परम् । दर्भमूले लेपभुजस्तपंयेल्लेपघर्षणैः । पिण्डै मर्मातामहांस्त हत् गन्धमाल्यादिसंयुतैः । प्रौणयित्वा हिजाग्राणां दद्यादाचमनं ततः” ॥ इति विष्णुपुराणात्। नचैतत् पाठकमान्मातामहपिण्डदानात् प्राकलेपघर्षणमिति वाच्य “सर्वेषु मधुमध्वित्यक्ष ब्रमो मदन्तेति
For Private And Personal Use Only