________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
१६१
तदकरणे तत्परदिने भोजने तु न दर्शनाद्यपेचेत्येतावतैव परेऽहनि इत्यादेः सार्थकत्वात् । एवञ्च "अर्धरावे व्यतीते तु यदा चन्द्रग्रहो भवेत् । सायन्तत्र न भुलौत न तु प्रातरभोजनम् ॥ इति नारदौय वचनस्याप्यसङ्कोचः स्यादत एवं नारायणोपाध्यायेन "न खानमाचरे का " इत्यादि मनुवचनमप्येतदितरविषयमिति प्रस्तास्तमिते चन्द्रे प्रातर्भोजनस्याभ्यनुज्ञानादिति चाभिहितम् । एष च दर्शननियमोन रागप्राप्तदर्शन एव मेघादिना तु प्रदर्शने तु उदयकालमाकलय्यैव भुञ्जीत । "मेघमालादिदोषेण यदि मुक्तिर्न दृश्यते । आकलय्य तु तं कालं भुञ्चौत स्नानपूर्वकम् ॥ इति कृत्यतत्त्वार्णवष्टतवचनात् । नचेदमग्रस्तास्तमिति विषयं तावन्मात्रविषयत्वे प्रमाषाभावात् । प्रत्युत ग्रस्तास्त विषय एवेदं सार्थकमन्धव दर्शनापेक्षायां प्रमाणाभावात् तव मुक्ते शशिनि भुञ्जीत इत्येतावमावमुक्तम् । यत्त " सूतके मृतके चैव सूतकं राहदर्शने । तावत्स्यादशुचिर्विप्रो यावन्मुक्तिर्न दृश्यते ॥ इति वचनं तदपि सुत्यवधारणपरम् । तथा च ब्रह्मपुराणम् । “यदेवास्तं गतचन्द्रो राहोराननगोचरः । श्राकलय्य तु तं कालं क्रिया कार्या विचचणैः” ॥ अतएवान्धेनापि उदयकालमा कलय्य भुज्यत इति । तथा च संवत्सरप्रदोषे । “ग्रस्ते चास्त' गते त्विन्दौ ज्ञात्वा मुक्त्यवधारणम् । स्नात्वा पाकादिकं कार्य्यं भुञ्जतेन्द्रदये पुनः” ॥ कालमाधवौये भृगुः “ ग्रस्त विवास्तमनन्तु रवोन्दू प्राप्तो यदि । तयोः परेद्युरुदये स्नात्वाभ्यवहरेखरः ॥ अनयोरुदयमात्रापेचोक्ता तस्मान्मक्तिं दृष्ट्वेति दर्श नापेक्षा निर्विरोधविषय एवेति अशौचातिदेशे तु राहुदर्शनस्य निमित्तता । सूतक इति प्रागुक्तवचने षट्त्रिंशन्मतवचने च दर्शनश्रुतेः । तद्यथा “ सर्वेषामेव वर्णानां सूतकं राहुदर्शने । स्नात्वा कर्माणि कुर्वीत मृतमन्त्रं विवर्जयेत्” ॥ अतएव स्मृतिः । “प्रेतखाडे यदुच्छिष्टं ग्रह पर्युषितञ्च यत् । दम्पत्योर्भुक्तशेषञ्च न भुलीत कदाचन" ॥ उच्छिष्ट पाकपावेऽवशिष्टम् । ग्रहे उपरागे पर्य्युषितं स्थितं दम्पत्योराश्रमस्वामिनोर्भाजनानन्तरं पाकस्थाल्यामवशिष्टमिति श्राचि
For Private And Personal Use Only