________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१३०
तिथितत्त्वम् ।
भोगाननुत्तमान् ” ॥ तथा “बालुकानि च लिङ्गानि पार्थि वानि च कारयेत् । सहस्रपूजनात् सोऽपि लभते वाञ्छितं फलम् ॥ ततश्चामुकतिथावारभ्यामुकलाभकामः सहस्रमितपार्थिव शिवलिङ्ग पूजनमिति च यथास्थाने वाक्यं देयमिति । ब्रह्मपुराणे । " यावत्र दौयते चाय भास्कराय निवेदितम् । तावन्न पूजयेद्दिष्णुं शङ्करं वा महेश्वरौम्” ॥ राघवभट्टष्टतम् । “सर्वत्रैव प्रशस्तोऽन: शिवसृय्यच्च नं विना ॥ प्रज्ञः शङ्खः । अग्निपुराणे” तल्लिङ्गेः पूजयेन्मन्त्रैः सर्वदेवान् पृथक् पृथक् । ध्यात्वा प्रणवपूर्वन्तु तत्रान्ना सुसमाहितः । नमस्कारेण मन्त्रेण पुष्पाणि विन्यसेत् पृथक् ॥ देवीपुराणे । “मृदारणसंघट्ट प्रतिष्ठाह्वानमेव च। स्रपनं पूजनञ्चैव विसर्जनमतः परम् ॥ हरो महेश्वरचैव शूलपाणिः पिनाकष्टक् । पशुपति: शिवश्चैव महादेव इति क्रमात् ॥ अत्र पूर्वोक्त सप्तकर्माणि परवचनोक्त सप्तनामभिः क्रियानुरूपविभक्तिमद्भियथायथं कार्याणि । श्रदृष्टार्थयोरर्थक्रमासम्भवेन पाठक्रमादेवावाहनात् प्राक् प्रतिष्ठा श्राडे कुशासनदानवत् । तत्रानुठानं हराय नम इति मृदाहरणं महेश्वराय नम इति संघटनं शूलपाणे इ सुप्रतिष्ठितो भवेति प्रतिष्ठा । ध्यायेत्रित्यं महेशमित्यादिना ध्यात्वा पिनाकष्टक् इहा गच्छेत्यावाहनं पशुपतये नम इति स्वपनम् एतत्याद्यं नमः शिवाय नमः एवमर्ध्यादिना पूजयेत् । विसर्जनात् पूर्वं भविष्यपुराणोक्तं स्वभावसिद्ध प्राच्चैशान्यादिदिक्षु वामावर्त्तेन पूजनम् । यथा सर्वायचितिमूर्तये नमः भवाय जलमूर्त्तये नमः रुद्राय अग्निमूर्तये नमः । उग्राय वायु मूर्त्तये नमः भौमाय आकाशमूर्तये नमः पशुपतये यजमान मूर्त्तये नमः महादेवाय सोममूर्त्तये नमः ईशानाय सूर्यमूर्त्तये नमः । “मूत्तयोऽष्टौ शिवस्यैताः पूर्वादिक्रमयोगतः । श्राग्नेय्यन्ताः प्रपूज्यास्ता वेद्यां लिङ्गे शिवं यजेत् ॥ ततो महादेव क्षमस्व इति संहारमुद्रया विसर्जयेत् । नन्दिपुराणे । “गोभूहिरण्यवस्त्रादिवलि पुष्पनिवेदने । ज्ञेयो नमः शिवायेति मन्त्रः सर्वार्थसाधक: I सर्वमन्त्राधिकखायमोङ्कारायः षडक्षरः । तमत्र जापौ तत्कर्म
For Private And Personal Use Only