________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् । सोयात्रियमं भक्तिमानरः। शिवरात्रिव्रतं ह्येतत्करिष्येऽहं महाफलम् । निर्विघ्नमस्तु मे चात्र त्वत्प्रसादान्जगत्पते !” ॥इति शिवरहस्यात् शिवरात्रि इत्यादिना नियम्य “चतुर्दश्यां निराहारो भूत्वा शम्भो ! ऽपरेऽहनि। भोक्ष्येहं भुक्तिमुक्त्यर्थं शरणं मे भवेवर" ॥ इति गरुडपुराणोयं पठेत् । रात्री प्रथमप्रहरे प्रतिष्ठिते लिङ्गेऽप्रतिष्ठिते वा प्रतिष्ठां विधाय पूजां कुर्यात् । हौं अस्त्राय फडिति पादघातत्रयेण विघ्नानिःसायं तेनैव तालत्रयेण करछोटिकया च दशदिग्बन्धनं कृत्वा भूतशुद्धि विधाय हां हृदयाय नम इत्यादिना षड़ङ्गानि न्यस्य हौमिति मन्त्रेण प्राणायामं विधाय पूजयेत् । पार्थिवलिङ्गे चेत्तदा वश्यमाण पूजाविधिना पूजयेत्। तत्रायं विशेषः। हौं ईशानाय नम इति प्रथमप्रहरे दुग्धे न नापयित्वा पुनर्जलेन नापयित्वा। "शिवरात्रिव्रतं देव पूजाजपपरायणः। करोमि विधिवद्दत्त रहाणाध्य महेश्वर!"॥ इत्यनेनाध्य दत्त्वा गन्धादिभिः संपूज्य मूलमन्त्र जपित्वा प्रणम्य गौतनृत्यादिभिस्तं प्रहरं नयेत्। “तड्यानं तज्जपः स्नानं तत्कथाश्रवणादिकम् । उपवासकती ह्येते गुणाः प्रोक्ता मनीषिभिः” ॥ इति देवीपुराणे सामान्यतः श्रवणात् अत्रापि तथा। हितोयप्रहरे तु विशेषः । हौं अघोराय नम इति दना स्नानम्। अध्यमन्त्रस्तु “नमः शिवाय शान्ताय सर्वपापहराय च । शिवरात्रौ टदाम्यर्थ्य प्रमोद उमया सह ॥ तौयप्रहरे तु हौं वामदेवाय नम इति घृतेन स्नानम्। अर्घ्य मन्त्रस्तु “दुःखदारिद्र. शोकेन दग्धोऽहं पार्वतोखर !! शिवरात्री ददाम्ययं मुमाकान्त ! रहाण मे"॥ चतुर्थ प्रहरे तु हौं सद्योजाताय नम इति मधुना नानम्। अयं मन्त्रस्तु "मया कृतान्यनेकानि पापानि हर शङ्कर ! । शिवरात्री ददाम्ययं उमाकान्त ! यहाण मे"॥ ततो नमः शिवाय इति मूलमन्त्र जपित्वा प्रभातेऽविघ्नेन इत्यादि वक्ष्यमाणमन्त्रान् पठेत्। तथाच गरुडपुराणं “मूलमन्च ततो जया प्रभाते तत्समापयेत् । प्रविघ्न न व्रतं देव ! त्वत्प्रसादात् समर्पितम् ॥ क्षमस्व जगतां नाथ! वैलोक्याधिपते! हर !। यम्मयाद्य कृतं पुण्यं तद्रुद्रस्य निवेदितम् ॥ वत्प्रसादान्मया
For Private And Personal Use Only