________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२६
तिथितत्त्वम्। चतुर्दशी तहिने व्रतम् उभयव्यात्यनुरोधात् । कालमाध. वीयोऽप्येवम् । एतेन परदिने उभयव्यापित्वेऽपि पूर्वदिवसीयरात्रि हितौययामप्रमृतिचतुर्दशौसत्त्व बहुप्रहरव्यापित्वेन पूर्वदिन एव व्रतमिति निरस्तम्। यदा तु पूर्वेधुनिशोथमात्रव्याप्तिः परेयुः प्रदोषमात्र व्याप्तिस्तदा पूर्वेद्यव्रतं प्रधानकालव्याप्त्यनुरोधात्। “पूर्वारपरेधुर्वा महानिशि चतुर्दशी। व्याप्ता सा दृश्यते यस्यां तस्यां कुर्यात् व्रतं नरः" ॥ इति ईशानसंहितावचनाच्च । एतहिषयएव भविष्यपुराणम् “अईरात्रात् पुरस्तात्तु जयायोगो भवेद् यदि। पूर्वविडैव कर्त्तव्या शिवरात्रिः शिवप्रियैः” ॥ विष्णुधर्मोत्तरे "जयन्तौ शिवरात्रिश्च कार्ये भद्रजयान्विते । कत्लोपवासं तिथ्यन्ते तदा कुयाच्च पारणम्” ॥ तिथ्यन्ते पारणं जयन्तीमात्रपरम् अत्र चतुर्दश्यामेव तत् । “ब्रह्माण्डोदरमध्ये तु यानि तीर्थानि सन्ति वै। पूजितानि भवन्तीह भूतायां पारणे कृते" ॥ इति स्कान्दात्। “दिनमानप्रमाणेन या तु रात्रौ चतुर्दशौ । शिवरात्रिस्तु सा जेया चतुर्दश्यान्तु पारणम्" ॥ इति गौतमौयाच्च। यदा तु पूर्वदिनेन निशौथव्याप्तिः परदिने प्रदोषमात्र व्यापिनी तदा परा ग्राह्या प्रदोषव्यापिनौति प्रागुतात्वात् तिथेस्त्रिसन्ध्यव्यापित्वाच्च। एतद्दिषय एव लिङ्गपुराणं "शिवरात्रिव्रते भूतां कामविहां विवर्जयेत् । एके नैवोपवासेन ब्रह्महत्यां व्यपोहति" अत्रामावस्थायामेव पारणम् । “शिवाघोरा तथा प्रेता सावित्रौ च चतुर्दशी। कुयुक्तव कर्तव्या कुह्वामेव हि पारणम्” ॥ इति वचनात्।। - तदयं संक्षेपः। यहिने प्रदोषनिशोथोभयव्यापिनी चतुदशौ तहिने व्रतम्। यदा तु पूर्वेद्य निशौथव्यापिनी परेशु : प्रदोषमात्रव्यापिनो तदा पूर्वेद्य व्रतम् । यदा तु न पूर्वेद्य निशौथव्याप्तिः परदिने प्रदोषव्याप्तिः परदिने प्रदोषव्यापिनी तदा परदिने। पारणन्तु परदिने चतुर्दशौलाभे चतुर्दश्यां तदलाभे अमावास्यायाम् ।
तत्र प्रयोगः। प्रातरुदन खः तत्सदित्यचार्य सूर्य: सोम इति पठित्वा जलादीन्यादाय सङ्कल्पयेत् “मन्त्रेणानेन
For Private And Personal Use Only