________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१०८
तिथितत्त्वम्।
भविष्यपुराणैकवाक्यत्वात्। अरुणोदय कालमाह स्कन्दपुराणम् । “उदयात् प्राक्चतस्रस्तु नाड़िका अरुणोदयः । तत्र स्नानं प्रशस्तं स्यात्तद्धि पुण्यतमं स्म तम्” ॥ नाडिका दण्डः ।
तदयं संक्षेपः । ग्टहस्थादौनामुभयपक्षे एकादश्यामुपवासाधिकारः। कृष्णपक्ष कादश्यां पुत्रवतो एहस्थस्य नाधिकारः । हरिशयनाभ्यन्तरे तस्याप्यधिकारः। वैष्णवपुत्रवग्रहस्थ स्य सर्व कृष्णायामप्यधिकारः । शुक्रवार रविवारादावप्ये कादश्यामुपवासफलाधिक्यम्। विधावायास्तु सर्वत्राधिकारः। अत्र अष्टाब्दादधिकापूर्णाशौति वर्षमानवो नित्याधिकारी एकादशीव्रतं नित्यं पारणदिने हादशौलाभे सर्वएव पूर्णामेकादशी त्यत्वा खण्डामुपवमेत् । तद लाभे टही पूर्वी तदन्यः परां विधवापि। यदा तु पूर्वदिने दशम्यायुतैकादशौ तदोत्तगमपोष्या हादश्यां पारणं कुर्यात् । परदिने हादश्यनिर्गमे तु त्रयोदश्यामपि यदा तु सूर्योदयानन्तरं दशमौयुतैकादशो परदिने न निःसरति तदा तां विहाय द्वादशनामुपवसेत् । यदा तु सूर्योदयपूर्वकालौन दशमौविकादशौ परदिने न निःसरति तदा तामपवसेत् । यदा तु तथाविधा सती परदिने निःसरति तत्परदिने च हादशौ तदा तां विहाय खण्डामुपोष्ण हादश्यां पारयेत् यदा तु उभयदिने तद्विधैकादशी तत्परदिने च न हादशौ तदा षष्टिदण्डात्मिकां विद्यामुपोष्य परदिने हादशवाद्यपादमुत्तीर्य पारयेत् वैष्णवस्तु तत्रापि शक्लपक्षे तु परामुपोष्ण त्रयोदशयां पारयेत्। एकादशुपवास: सूतकादावपि कार्यः। भविष्योत्तर पद्मपुराणयोः । "एकादशयां न भुञ्जीत पक्षयोरुभयोरपि। सूतके मृतके वापि अन्यस्मिन् वाप्यशौचके। सर्वथा न परित्याज्या इच्छता श्रियमात्मनः”। स्त्रियास्तु पुलस्त्यः। “एकादशयां न भुञ्जीत नारी दृष्टे रजस्यपि” ॥ अशक्तं प्रति नारदीयम्। "अनुकल्पो नृणां प्रोक्तः क्षोणानां वरवर्णिनि !"। वायुपुराणे "उपवास निषेधे तु किञ्चित् भक्ष्यं प्रकल्पयेत् । न दुष्येदुपवासेन उपवासफलं लभेत् ॥
For Private And Personal Use Only