________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१०४.
तिथितत्त्वम् ।
जोवेत्युक्तस्त्वया सह। अशुभं खञ्जनं दृष्ट्वा देवब्राह्मणपूजनम् । दानं कुर्वीत कुर्य्याच्च स्नानं सर्वोषधौजलैः। क्षुतोत् पतन जम्भासु जो वोत्तिष्ठाङ्गलिध्वनिः। शत्रोरपि च कर्तव्यमन्यथा ब्रह्म हा भवेत्। इति वन्द्यघटीय हरिहरभट्टाचार्यात्मज) श्रीरघुनन्दनभट्टाचार्यविरचितदुर्गापूजातत्त्वं समाप्तम् ।
अथ एकादशी। सा च परयुता ग्राह्या युग्मात् । आग्नेये "एहस्थो ब्रह्मचारी च आहिताग्निस्तथैव च। एकादश्यां न भुञ्जोत पक्षयोरुभयोरपि” ॥ कृष्णायां पुत्रवतो एहस्थस्य निषेधमाह ब्रह्मपुराणम्। “प्रादित्येऽहनि संक्रान्यामसितैकादशौ दिने। व्यतीपाते कृते श्राचे पुत्रौ नोपवसेत् ग्रहो" अस्यैव शयनवोधनमध्ये प्रति प्रसवमाह ब्रह्मवैवर्तः। “शयनी बोधनौमध्ये या कृष्ण कादशौ भवेत्। सैवोपोष्या रहस्थेन नान्या कृष्णा कदाचन" ॥ वैष्णवस्य तु यावत् कृष्णायामुपबासमाह नारदः। “नित्य भक्तिसमायुक्त नरैविष्णु परायणैः । पक्षेपक्षे च कर्तव्यमे कादश्यामुपोषणम्। सपुत्रश्च समायव खजनैतिसंयुतः। एकादश्यामुपवसेत् पक्षयोरुभयोरपि” ॥ __ तत्त्वसागरे। “यथा शुक्ला तथा कृष्णा यथा कृष्णा तथे. तरा। तुल्येति मन्यते यस्तु सवै वैष्णव उच्यते” इति वैधावलक्षणमप्य ताम्। वैधोपवासे भोजन चतुष्टयनिवृत्तिमाह महाभारतम्। “सायमाद्यन्तयोरङ्गोः सायं प्रातच मध्यमे । उपवास फलं प्रेप्सोवज्यं भक्त चतुष्टयम्" ॥ पुत्रवतो ब्रह्मपुराणोत रविवाराापवासविविधस्तु तन्मात्र निमित्त कोपवासपरः। “तनिमित्तोपदासस्य निषेधोऽयमुदाहृतः । नानुषङ्गकतो ग्राह्यो यतो नित्यमुपोषणम्” ॥ इति जैमिनिवचनात् । "भृगुभानुदिनोपेता य संशान्ति संयुता। एकादशौ सदोपोष्या पुत्रपौत्र विवडिलो" इति विष्णुधर्मोत्तराच। तत्रिमित्तोपवासमाह संवतः। “अमावास्या हादशौ च संक्रान्तिव विशेषतः। एता:प्रशस्तास्तिथयो भानुवारस्तथैव च ॥ प्रत्र नानं जपो होमो देवतानाञ्च पूजनम्। उपवासस्तथादानमे कैकं पावनं स्म तम्” ॥ पिटवासरादौ तु वराहपुराणविष्णु
For Private And Personal Use Only