________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१०२
तिथितत्त्वम् ।
तिलकं नेत्रमण्डनम् ॥ पञ्चम्यामङ्गरागांश्च शक्त्यालङ्करणानि च। षड्यां विल्वतरौ बोधं सायं सन्ध्यासु कारयेत् ॥ सप्तम्यां प्रातरानीय गृहमध्ये प्रपूजयेत् । उपोषणमथाष्टम्यामष्टशक्तेः प्रपूजनम् ॥ नवस्यामुग्रच ण्डायास्तद्ददेवार्चनं दिवा । पूजा च बलिदानञ्च तन्मातुः प्रपूजयेत् ॥ कुमारी पूजनीया च भूषणीया च भूषणैः । संपूज्य प्रेषणं कुर्य्यात् दशम्यां शावरीसवैः ॥ अनेन विधिना यस्तु देवीं प्रौण्यते नरः । स्कन्दवत् पालयेत् तन्तु देवौ सर्वापद स्थितम् ॥ पुत्रदारधनद्दनां संख्या तस्य न विद्यते । भुक्त ह विपुलान् भोगान् प्रेत्य देवीगणो भवेत्" ॥ अत्र कल्पे प्रतिपदि कलमस्थापनं यजमानखानार्थं दुर्गाभक्तितरङ्गिण्यां यदुक्तं तन्त्र युक्तम् । तस्य देवीपूजानङ्गत्वेन तव तद्दिधानस्यायुक्तत्वात् । मत्स्यपुराणे ग्रहयाग एव तस्योत्वाच । यद्यपि " अग्निब्रह्मा भवानी च गजवक्त्रोमहोरगः । स्कन्दोभानुमत्रगणो दिकपालाश्च नवग्रहाः ॥ एषां घंटे तु प्रत्येकं पूजयित्वा यथाविधि । मूत्तिं पवित्रमेकैकं दद्यादेव समाहितः ॥ इति कालिकापुराणौवेन प्रतियदि ब्रह्मपूजनमात्रमुक्तम् । तन्न युक्तं ब्रह्मपूजन वदग्न्यादिपूजनस्यापि तद्दचनोक्तत्वेन तदभिधानस्यापि युक्तत्वात् किन्तु तद्दचनं सामान्यतः पूजान्तरविधायकतया बोध्यम् । मत्स्ये । "अर्थ होनो दहे द्राष्ट्रं मन्त्र हो नस्तथ त्विजम् । श्रात्मानं दक्षिणाहोनो नास्ति यज्ञसमो रिपुः” ॥ श्रर्थो द्रव्यम् ।
।
T
a
tatararकाले निर्मञ्छनविधिमाह पूजारत्नाकरे देवीपुराणम् । “भक्त्या पिष्टप्रदीपाद्यैश्वताश्वत्यादिपल्लवैः । श्रोष - धौभिश्च मेध्याभिः सर्ववीजैयवादिभिः । नवम्यां पर्वकाले तु यात्राकाले विशेषतः । यः कुर्य्यात् श्रद्धया वौर देव्या नौराजनं नरः । शङ्खभेय्र्यादिनिनदैर्जयशब्देश्य पुष्कलैः । यावतो दिवसान् वौर देव्या नौराजनं कृतम् । तावत् कल्पसह - स्राणि दुर्गालोके महीयते । यस्तु कुर्य्यात् प्रदीपेन सूर्यलोके सहयतं " ॥ पर्वकाले उत्सवकाले । देव्या इति स्त्रोत्वमविवचितम्। विष्णादि प्रतिमायां तथाचारात् ।
योगाधिकारे हरेः स्तुतिमाह मत्स्यपुराणम् । “प्रीयतां
For Private And Personal Use Only