SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिथितत्त्वम् । धारयेत् शङ्खमुद्रया" । इति वाचस्पतिमिश्रकृतमहादाननिर्णयधृतवचनात् । अग्नेर्नामानि गोभिलपुत्रकृतग्टह्य संग्रहे । " लौकिके पावको ह्यग्निः प्रथमः परिकल्पितः । श्रग्निस्तु मारुतोनाम गर्भाधाने विधीयते ॥ पुंसवने चन्द्रनामा शृङ्गाकर्मणि शोभनः । सौमन्ते मङ्गलो नाम प्रगलभो जातकर्माणि ॥ नाम्नि स्यात् पार्थिवो ह्यग्निः प्राशने च शुचिस्तथा । सत्यनामाथ चूड़ायां व्रतादेशे समुद्भवः ॥ गोदाने सूर्य्यनामा च केशान्ते ह्यग्निरुच्यते । वैश्वानरो विसर्गे तु विवाहे योजकस्तथा" || गोदाने गोदानाख्यसंस्कारे । " चतुर्थ्यान्तु शिखौनाम धृतिरग्निस्तथापरं" । अपरे धृतिहोमादौ । “प्रायश्चित्ते विधुश्चैव पाकयज्ञ तु साहसः” । प्रायश्चित्तात्मक महाव्याहृति होमादौ । पाकयज्ञ पाकाङ्गकवृषोत्सर्गग्टह प्रतिष्ठा होमादौ । “ लक्षहोमे च वह्निः स्यात् कोटिहोमे हुताशनः । पूर्णाहुत्यां मृड़ोनाम शान्ति के वरदः सदा । पौष्टिके वलदचैव क्रोधोऽग्निवाभिचारके । कोष्ठे तु जठरो नाम क्रव्यादोमृतभक्षणे । “आहूय चैव होतव्य यत्र यो विहितोऽनलः” ॥ तथा "शुभं पावन्तु कांस्यं स्वात्तेनाग्निं प्रौषयेदुधः । तस्याभावे शरावेन नवेनाभिमुखञ्च तत् । विशेषनामाज्ञाने गुणविष्णुष्टता स्मृतिः " सर्वतः पाणिपादान्तः सर्वतोऽचिशिरोमुखः । विश्वरूपो महानग्निः प्रणीतः सर्वकर्मसु " अग्निप्रणयनानन्तरं सर्वत इत्यस्य पाठो युज्यते प्रणीत इति मन्त्रलिङ्गात् । अन्यथा स्थापनानन्तरमेतदभिधानं व्यर्थं स्यात् । गुणविष्णुना श्रुतिरिति कृत्वा सर्वतः पाणिपादान्त इति लिखि तम् । एवञ्च दुर्गापूजनस्य पौष्टिककर्मत्वात् । तदङ्गहोमे बलदनामाग्निरिति । ध्यानमादित्यपुराणे । “पिङ्गभुः श्मश्रु केशान्तः पौताङ्गो नठरोऽरुणः। छागस्थः साचसूत्रोऽग्निः सप्तार्चि: शक्तिधाकः " ॥ यत्तु प्रकृतकर्मवैगुण्य प्रशमनाय शाट्यायन होमाभिधानं भवदेव भट्टसम्मतं तन्त्र प्रामाणिकं तस्मादपि महाप्रामाणिकैर्भट्टनारायणचरणैर्गोभिलभाष्य तदप्रमाणीकृत For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy