________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
६
पूजने स्पष्टमुक्त यथा । “सुरान् संपूजयेद्भक्त्या सुमनोभिश्व कुङ्गमैः । दापेधूपश्च नैवेद्यः पायसेन च भूरिणा । मात्रयात्रप्रदानेच होमः पुण्यः सदक्षिणैः" |
३
पूजाजपहोममन्त्रस्तु देवीपुराणे "पूजयेत्तिल हो मैस्तु दधिक्षौर घृतादिभिः” । कुबाईयास्तु मन्त्रेण इत्यभिधाय “ जयन्ती मङ्गलाकाली भद्रकाली कपालिनी । दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥ अनेनैव तु मन्त्रेण जपहोमो तु कारयेत्” एवं “पुरचरणकार्येषु विल्वपत्रैर्युतेस्तिलैः । साचतेः सघृतैर्वापि शिवामुद्दिश्य भक्तितः । जुहु - यादनलं वृद्ध संस्कृत कामवृइये” इति कालिकापुराणात् अत्रापि विल्वपत्र घृतोपयोगितति अत्र दुर्गाभक्तितरङ्गिण्यां स्वधा पूजानन्तरं वाडा पूजालिखनात् खादान्तपाठ निर्णय इति तन्न मल्यनूक विरोधात् । तथा च " पञ्चोपचारैर्विधिवज्जयन्त्याद्यास्ततः परम् । जयन्ता मङ्गला काली भद्रकाली कपालिना । दुर्गा क्षमा शिवा धात्री पूजनीयाः प्रयत्नतः । दक्षपार्श्व' ततादेव्याः स्वाहाई व स्वधान्तथा । इति । न च अत्रापि तथा क्रमः । तथात्वं पञ्चमाक्षरस्य लघुत्वानुपपत्तेः । दुर्गामाहात्मान्तर्गतार्गलायां तथा पाठ दर्शनात् प्राचौन ग्रन्थे तथा दशनाच्च । पूजायां हौमिति चतुरक्षरमप्याह कालिकापुराणम्। "चतुरक्षर मन्त्रण पाद्यादौनथ षोड़श | वितरेदुपचारांश्च पूर्वप्रोक्तांस्तु भैरव" । तदनन्तरं प्रणवादिनमोन्त देवता नामोच्चारणमाहाग्निपुराणम्। “तल्लिङ्गैः पूजयेन्मन्त्रः सर्वदेवान् समाहितः । ध्यात्वा प्रणवपूर्वन्तु तत्रामा सुसमाहितः । नमस्कारंण पुष्यादिं विन्यसेत्तु पृथक् पृथक् ” ॥ अत्र च " तत्राष्टम्यां भद्रकाली दक्षयज्ञविनाशिनौ । आविर्भता महाघोग योगिनौ कोटिभिः सह । अतोऽव पूजनीया सा तस्मिन्नहनि मानवैः ॥ इति ब्रह्मपुराणात् "दक्षयज्ञविनाशिन्य महाघोरायै योगिनी कोटिपरिवृतायै भद्रकाल्यै हां दुर्गायै नमः” । इत्यनेनापि पूजां प्रचरति । पूजायां विशेषस्तु दुर्गा पूजा तत्त्वो ऽनुसन्धेयः ।
हामाढावङ्गल
मानादिग्रहणं
छन्दोगपरिशिष्टम् ।
For Private And Personal Use Only
-