________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
इति तेनैव प्रतिप्रसूतस्य रविवारादौ निषेध इति सुतरामष्ट. न्युपवासपारणेऽपि रविवारादौ मांसनिषेधः। एवं मांसाशनत्यागकृतनियमेन नियोगादिष्वपि मांसं वर्जनौयमाह प्रायश्चित्तविवेके यमः । “भक्षयेत् प्रोक्षितं मांसं सतत् ब्राह्मणकाम्यया। देवे नियुक्तः श्राद्धे वा नियमे तु विवर्जयेत्” । पूर्वोतवचनस्य मत्स्यमांसोपहारेण नैवेद्य दत्त्वैव भोजनं कार्य नतु अदत्त्वे त्यर्थः अन्यथा मूलभूतश्रुतौ वाक्भेदः स्यात् नैवेद्यावशिष्टमांसादेरावृत्त्यापत्तेश्चेति। प्रोक्षितं यज्ञार्थ मन्त्रैः संस्कृतम् पारण्यानामिदानौन्तनप्रोक्षणाद्यपेक्षा नास्तौति । यथा महाभारते। “भारण्याः सर्वदेवत्या: प्रोक्षिताः सर्वशो मृगाः। अगस्त्येन पुरा राजन् मृगया येन पूज्यते” ॥ अत्र प्रमाणान्तराप्राप्तत्वेन “पशुना यजेत" इत्यत्वै कल्ववबिधेयविशेषणत्वेन अरण्यादेः पुस्त्वविवक्षितम् अतएव हरिवंशेऽपि "अवध्याञ्च स्त्रियं प्राहु स्तियंग्योनिगतेष्वपि । ततश्च हरिण्यादीनामप्रोक्षितत्वेनाभक्ष्यत्वम् । यत्तु ब्रह्मपुराणे । “पशोस्तु मार्य माणस्य न मांसं ग्राहयेत् क्वचित् । पृष्ठमांसं गर्भशय्यां शुष्कमांसमथापि वा” इति गर्मशय्या निषेधनं तत्सारस्वत्या मेध्यायागे बोधं ततस्तु "नियुक्तस्तु यथा न्यायं यो मांस नात्ति मानवः। स प्रेत्य पशुतां याति सम्भवाने कविंशतिम्” ॥ इति मनुवचनं तत्कालौनानिषिद्धमांसभुग्विषयम्। प्रेत्येत्यव्ययं परलोके इत्यर्थः । तथा च अमर: “प्रेत्यामुत्र भवान्तरे" इति । तथा च महाभारते। "रोगातॊऽभ्यर्थितो वापि यो मांसंनात्यलोल पः। फलं प्राप्नोत्ययत्नेन सोऽखमेधशतस्य च ॥ मांमत्यागोपदेशेऽपि तत् फलमाह नन्दिकेश्वरपुराणे । “यश्चोघदेशं कुरुते परस्य तु महात्मनः। मांसस्य वर्जनफलं सो मांसादफलं लभेत्” । अतो रविवारादौ मत्स्यमांसाशनं विनापि अष्टम्युपवासपारणसिद्धिः । स्फयाश्लिष्टेज्यायामावाहनं विनेव ।
ररिवार आमिषनिषेधो भविष्थे। “आमिषं रक्तशाकञ्च यो भुत च रवेदिने। सप्तजन्म भवेत् कुष्ठौ दरिद्रश्योपजायते ॥ तस्मात् सर्वप्रयत्नेन एकभक्तं रवेर्दिन। कुर्य्यावक्त हविष्थं वा रोगयुक्तोऽन्यथा भवेत् ॥ स्मतिः। “माष
For Private And Personal Use Only