SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ७० ) ऽच्चेः, महोक्षः । ७-३-१०० द्विरायुषः समाहारेऽद्, द्वयायुषं ।७-३-१०१ वांजलेरलुकः द्विगोर्द्वित्रेः, द्वयंजलं द्वयंजलि, लुकि द्वयंजलिर्घटः । ७-३-१०२ खार्या वा पंचखारि पंचखारं ७-३-१०३ वार्धाच्च, अर्धखारं अर्धखारी । ७-३-१०४ नाव:, अर्धनावं पंचनावी । ३-२-७३ हविष्यष्टनः कपाले दीर्घोऽन्तः, अष्टाकपालं हविः । ३२-७४ गवि युक्ते । ३-२-७५ नाम्नि, अष्टापदम् अष्टागवं (त्रिपद : ) । ३-२-९२ द्वित्र्यष्टानां द्वात्रयोऽष्टाः प्राक् शतादनशीति बहुव्रीहौ, द्वादश त्रयस्त्रिंशत् अष्टात्रिंशत् द्व्यशीतिः । ३-२-९३ चत्वारिंशदादौ वा द्वात्रयोऽष्टाः । ३-२-९१ एकादश षोडश षोडषोढा षड्ढा, पोडन्तौ, षोडन् धि षट्धापि चेति । ३-२-१२ओजोऽजःसहोऽम्भस्तमस्तपसष्टः, न लुब्, तपसाकृतं असमस्तस्य, तमसः तपसश्च नेति । ३-२-१३ पुंजनुषोऽनुजान्धे, पुंसानुजः । ३-२-१४ आत्मनः पूरणे । ३-२-१५ मनसश्चाज्ञायिनि आत्मनाज्ञायी, नात्मन इति ।३-२-१६ नाम्नि, मनसादेवी । ३-२-१७परात्मभ्यां डेः, परस्मैपदं अनादिनाम्नि । ३-२-२१ मध्यान्ताद् गुरौ डे: । ३-२-२२ अमूर्धमस्तकात्स्वांगादकामे अद्वयंजनात् । ३-२-२३ बन्धे घञि नवा, हस्तेबन्धः हस्तबन्धः । ३-२-२४ कालात्तनतरतमकाले वा । ३-२-२५ शयवासिवासेष्वकालात् वा, बाहुल्यान्मनसि - शयः हृच्छयः । ३-२-२६ वर्षक्षराप्सरः शरोरोमनसो जेवा, अप्सुजं अब्जं । ३-२-२७द्युप्रावृवर्षाशरत्कालात् जे न लुप् । For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy