________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ५७ )
-
Servisor नैकार्थ्यं वा यदीयक्रियया भावावबोधस्तस्य, लोकमध्याल्लोकांतमुपर्यधश्च सप्त रज्जूनामनन्ति । २-२ १०८ षष्ठी बाडनादरे यद्भावो भावलक्षणं तस्मिन् भाववति, रुदतो लोकस्य रुदति लोके वा प्राभाजीत् । २-२-१०९ सप्तमी चाविभागे निर्धारणे, पुरुषेषु पुरुषाणां वा क्षत्रियः शूरतमः । गोभ्यः कृष्णा संपन्नक्षीरतमेति । २-२-११० क्रियामध्येऽध्वकाले पंचमी च, अद्य भुक्त्वा द्वयहाद् द्वयहे वा भोक्ता । २-२-१११ अधिकेन भूयसस्ते ( अल्पीयसा ) अधिको द्रोणः खार्या खार्या वा । २-२-११२ तृतीयाऽल्पीयसः (भूयोऽर्थाधिन) अधिका खारी द्रोणेन । २-२-११३ पृथग् नाना पञ्चमी च, पृथग मैत्रेण मैत्राद्वा । २-२-११४ ऋते द्वितीया च, ऋते धर्मात् धर्मं वा कुतः सुखं । २-२-११५ विना ते तृतीया च वातं वातेन वाताद्वा विना वर्षं । २-२-११६ तुल्यार्थैस्तृतीयाषष्ठी, गुरुणा गुरोर्वा समः । २-२-११७ द्वितीयाषछ्यायेनेनानश्चेः, पूर्वेण ग्रामं ग्रामस्य वा । २-२-११८ हे स्वर्थेस्तृतीयायाः, धनेन हेतुना यावत् धने हेतौ वसति । २-२-११९ सर्वादेः सर्वाः हेत्वर्थैः, को हेतुः यावत् कस्मिन् हेतौ वसति। २-२-१२० असत्त्वारादर्थाद्वाङसिङयम्, दूरेण दूरात् दूरे दूरं वा अभ्याशेनाभ्याशादभ्याशेऽभ्याशं वा ग्रामाद् ग्रामस्य वा। २-२-१२३ फाल्गुनीप्रोष्ठपदस्य भे द्वौ बहुवा, पूर्वे फाल्गुन्यौ पूर्वाः फाल्गुन्यः । २-२-१२४ गुराबेकश्च वा बहुवत्, चाद् द्वौ, अयं तपस्वी इमे तपस्विनः एते गुरवः । विचित्रा:
For Private and Personal Use Only