SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४९ ) २-२-३१ नाम्नः प्रथमैकद्विबहौ स्योजस्ंलक्षणा, स्वार्थ (भावो विशेषणं गुणो वा) द्रव्य (विशेष्यं) लिङ्गसंख्याशक्ति (स्त्रपराश्रयाश्रितक्रियोत्पत्तिहेतुः कारकरूपा तत्पूर्वक संबंध रूपा च ) लक्षणो व्यस्तः समस्तो वा नामार्थः तादर्थ्यवृत्तमानधरणयोगाधिपत्यसामीप्यसाधनैरुपचरितमपि नामार्थः । अश्वः, इयं जातिः, स्त्री, वृक्षः, क्रियते कटः, कुन्ताः प्रविशन्ति, गिरिर्दह्यते, प्रदीपो मल्लिका, यमोऽयं राजा, खारी मुद्राः, तुला चंदनं, रक्तः कम्बलः, ग्रामाधिपतिर्ग्रामः, गंगायां घोषः, आयुर्धृतं । अलिंगं त्वं अलिंगसंख्यं उच्चैः, शक्तिप्रधानं यत्र, स्वरूपमात्रं अध्यागच्छति, त्याद्यन्तपदसामानाधिकरण्ये प्रथमेति तच्चं । २-२- ३२ आमन्त्रये प्रथमा, प्रसिद्ध तत्संबंधस्य अभिमुखीकरणे, हे देव । २-२-१ क्रियाहेतुः कारकं द्रव्याणां स्वपराश्रयसमवेतक्रियानिर्वर्त्तकं कर्तादि, कर्त्ता कर्म च करणं, संप्रदानं तथैव च । अपादानाधिकरणे, इत्याहुः कारकाणि षट् ॥१॥ २-२-२ स्वतंत्रः कर्त्ता, प्रधान आत्मप्रधानो वा, करोति कारयति वा घटं मैत्रः, उक्तार्थानामप्रयोगस्तेन नाम्न इति प्रथमा, एवं कर्मणि । २-२-३ कर्तुर्व्याप्यं कर्म, निर्वर्त्य (घटं करोति) विकार्य ( दधि मध्नाति) प्राप्य (रूपं पश्यति) भेदात्, तदपि इष्टानिष्टानुभयभेदं दुहिभिक्षिरुधिप्रच्छिचिग्नग्शास्वर्थेषु याचि ( अनुनये) जयतिप्रभृतिषु च प्रधानाप्रधाने कर्मणी, क्रियार्थः प्रधानं, अन्यदप्रधानं, दुहादेगौंणे प्रत्ययः गौझते पयः, नीवहिहादीनां तु प्रधाने ग्राममजा For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy