________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३१ )
त्ययोत्तरपदे चैकस्मिन् मान्तयोः, लुबन्तरङ्गेभ्यो बलवतीति प्रेत्यादि, त्वदीयः त्वत्कृतं त्वाम् माम् युवाम् आवाम् । २-१-१७ शसो नः, युष्मान् अस्मान् । २-१-७ टाड्योसि यः, त्वया मया युवाभ्यां आवाभ्यां युष्माभिः अस्माभिः । २-१-१४ तुभ्यं मह्यं ङया, तुभ्यं मह्यं युवाभ्यां आवाभ्यां । २-१-८ शेषे लुक् अनाये स्यादौ, अलिङ्गे युष्मदस्मदी इति नादापू स्त्रीलिङ्गे । २-१-१८ अभ्यम् भ्यसः, स्थानित्वादतो न २-१-९ मोर्वा शेषे स्यादौ लुकू । युष्मभ्यम् अस्मभ्यं । २-१-१९ ङश्चात् चात् पञ्चमीभ्यसः, त्वत् मत् युवाभ्यां आवाभ्यां युष्मत् अस्मत् । २-१-१५ तव मम ङसा, तत्र मम युवयोः आवयोः । २-१- २० आम आकम्, युष्माकम् अस्माकम्, आः ण्यन्तार्थं युषाकम् असाकम्, अतियुष्मयामिति । त्वयि मयि । युवयोः आवयोः युष्मासु अस्मासु । २-२-१२२ अविशेषणे द्वौ चास्मदः बहुवद्वा चादेकः, अहं आवां वयं । समस्यमाने इथेकत्ववाचिनी युष्मदस्मदी । समासार्थोऽन्यसंख्यश्चेत्, स्तो युवा त्वमावपि ॥ १ ॥ सिजमूडेङस्सु परत आदेशाः स्युः सदैव ते । एते परत्वाद्बाधन्ते युवावौ च त्वमावपि ॥ २ ॥ द्ववेकसंख्यः समासार्थो, बह्वर्थे युष्मदस्मदी । तयोरद्वयेकतार्थत्वान्न युवाar त्वमौ च न ॥ ३ ॥ त्वमहमादयस्तु स्युरेव । त्वां मां युवां आवां वा अतिक्रान्तः अतित्वं अत्यहं अतियुवां अत्यावां अतिपूयं अतिवयं अतित्वां अतिमां अतियुवां अत्यावां अति
For Private and Personal Use Only