________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२२) वर्जनात् स्त्रियां ङितामिति अतिस्त्रियै अतिस्त्रये अतिस्त्रीणां अतिस्रियां अतिस्त्री, श्रीः श्रियौ श्रियः हे श्रीः श्रियै श्रिये । ।१-४-३१ आमो नाम्वा इयुवः स्त्रीदूतोऽस्त्रियाः, श्रीणां श्रियां अतिश्रीणाम् अतिश्रियाम्, प्रधीलक्ष्मीवत्, प्रकृष्टा धीरिति प्रधीः प्रध्यं प्रध्यः, सुधीः श्रीवत् , सेनानीः सेनान्यो सेनानीनाम् , कटावै, कटगुवाम् । २-१-५३ भूश्नोः संयोगादोरुन् ,ध्रुवौ भ्रवः। १-४.९३ स्त्रियाम् क्रुशस्तुनस्तृच, निनिमित्त इति पञ्चक्रोष्भिरित्यत्र डीनिवृत्तावपि तृज् । २-४-१ स्त्रियां नृतोऽस्वस्रादेः कोष्ट्री, स्वसा दुहिता ननान्दा याता माता तिस्रः चतस्रः इति स्वस्त्रादि, विभक्तिनिमित्तयोरपि तिसृचतस्रोः पाठः सनिपातन्यायस्यानित्यत्वार्थः, तेनातिदन्या या सेत्यादौ ङयापौ । पुनर्भूः हे पुनर्भुरिति पुनर्भू हे खलपूः । २-३-७६ कवर्गकस्वरवति पूर्वपदरपुरुत्तरपदान्तस्यागमस्य स्यादेश्च नस्य णः, नतु पक्वस्य, पुनर्पूणाम्।स्वसा स्वसरौ माता मातरौ। इति स्त्रीलिङ्गाः।।
१-४.५७ अतः स्यमोऽम् नपुंसकस्य, कुलं कुले कुलानि हे कुल, तृतीयादौ पुंवत् , एवं ज्ञानादयः । १-४-५८ पञ्चतोऽ. न्यादेरनेकतरस्य दः स्यमोः क्लीवे । १-३-५१ विरामे वाऽशिटो धुटः प्रथमः, अन्यत् अन्यद् , स्यम इति हे अन्यत्, प्रियान्यं कुलं, एकतरं अन्यतमं, अतिजरसं अम्ग्रहणात् सनिपातानित्यत्वं अतिजरं । १-४-६० जरसो वा क्लीवे स्यमोर्लक, अतिजरः, द्वितीयाम इति स्यमारविजरसमेवेति च, अतिजरसी अति
-
-
-
For Private and Personal Use Only