________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १६ )
पूर्वे पूर्वाः पूर्वस्मात् पूर्वात् अन्तरस्मिन् अन्तरे बाह्ये शाटके वा । १-४ -१० नेमार्धप्रथमचरमतयायाल्पकतिपयस्य वा अतो जस इः, नेमे नेमाः द्वितये द्वितयाः द्वये द्वयाः अर्धकाः, संज्ञायां नेमाः, एकः संख्यान्यासहायाद्वितीयार्थः । १-४-११ द्वन्द्वे वा सर्वादेर्जस इः, दन्तकतमे दन्तकतमाः । १-४ -१२ न सर्वादिः द्वंद्वे सर्वादिः, कतरकतमानां पुंवद्भावात् कपि कतरकतमका इत्येव, अन्यार्थत्वे प्रियसर्वाय । १-४-१३ तृतीयान्तात्पूर्वावरं योगे न सर्वादिः, पूर्वाय मासेन । प्रत्ययलोsपि प्रत्ययलक्षणं कार्य विज्ञायत इति वर्षावराय । १-४-१४ तीयं ङित्कार्ये वा सर्वादिः, द्वितीयस्मै द्वितीयाय, प्रातिपदिकाप्रातिपदिकयोः प्रातिपदिकस्यैव ग्रहणं पटुजातीयाय, निर्जरः । २-१-३ जराया जरस वा स्वरादौ स्यादौ, स्वान्यसम्ब न्धिनि । ७-४-१०७ अनेकवर्णः सर्वस्य, परं निर्दिश्यमानस्यादेशाः, निर्जरसौ निर्जरसः निर्जरान निर्जरसा निर्जरैः निर्जरसैः निर्जरसः २, इनातोरपीति । २-१-१०१ दन्तपादनासिकाहृदयासृग्यूषोदकदोर्यकृच्छकृतो दत्पन्न म्हृदसन् युषन्नुदनदोषन्यकञ्शकन्वा शसादौ स्यादौ, दतः दन्तान् दता दन्तेन दद्भ्यां पदः पादान् पदा पादेन पद्भ्यां पादाभ्याम् यूषान् । १-१-२९ पुंस्त्रियोः स्यमौजम् घुट् । २-१-१०८ अनोऽस्य लुक् ङीस्याद्यघुट्स्वरे, यूष्णः युष्णा । २-१-९१ नाम्नो नोऽनहः लुक् पदान्ते, यूषभ्यां, असवानात
For Private and Personal Use Only