________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१५)
नस्य, देवानाम् देवे देवयोः। २-३-१५ नाम्यन्तःस्थाकवर्गात् पदान्तः कृतस्य सः शिइनान्तरेऽपि षः, देवेषु, पृथग्नोपादानात् शिटा नकारेण वेति निस्से अत्र यन्तरे पुंसु अत्र मोऽनुस्वारे च न षः । सर्वविश्व (द्रव्यावयवप्रकारगुणानां कात्स्न्य) उभ उमयट् अन्य अन्यतर इतर डतर डतम त्व त्वत् नेम समसिमौ सर्वार्थी पूर्वपराऽवरदक्षिणोत्तरापराधराणि व्यवस्थायां स्वमज्ञातिधनाख्यायाम् अन्तरं बहिर्योगोपसंव्यानयोरपुरि त्य तद् यद् अदम् इदम् एतद् एक ( अन्यार्थोऽपि) द्वि युष्मद् भवतु अस्मद् किं इति सर्वादिस्त्रिलिंगोऽसंज्ञायां, हेत्वर्थे सर्वविभक्त्यर्थमुभत्वद्वियुष्मदस्मद्भवतः, अन्यतमनिवृत्तयेऽन्यतरः, सर्वादिः स इति, प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तग्रहणात् अन्यस्यार्थिकाभावाय इतरडतमौ, पुंवद्भावाक्डद्रयः अन्यत्यदादेराः त्यदादिः शेषः आयनिश्च फलं, त्वकपितृक इत्यत्रान्तरङ्गत्वात्पागक, त्वत्कपितृक इति । १-४-९ जस इ. सर्वादेरतः, सर्वे । २.३-६३ रवर्णान्नो ण एकपदेऽनन्त्यस्यालचटतवर्गशसान्तरे, सर्वेण, एकशब्दस्य नियमार्थत्वेन चर्मनासिकः । १-४-७ सादेः स्मैस्माती डेडस्योरदन्तात, सर्वस्मै, सर्वस्मात् । १-४-१५ अवर्णस्यामः साम् सर्वादेः, सर्वेषाम् । १-४-८ : स्मिन् सर्वादेरतः, सर्वस्मिन् । नित्यद्वित्वे उभशब्दः, उभौ, अद्वित्व उभयः, उभये उभयस्मिन् । १४-१६ नवभ्यः पूर्वेभ्य इस्मास्मिन् वा जस्ङसिडीनां,
For Private and Personal Use Only