________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ५ )
उपेडकीयति उपैडकीयति प्रोघयति प्रौघीयति । १-२-२७ एदोतः पदान्तेऽस्य लुक, तेऽत्र पटोऽत्र । १-२-२८ गोर्ना - मन्यवोऽक्ष पदान्ते ओतः, गवाक्षः, अन्यत्र गोऽक्षाणि, गवाक्षाणीति । १-२-२९ स्वरे वाऽनक्षे, गवाग्रं गोऽयं, ओत इति चित्रगविदं । ९ - २ - ३१ वाsत्यसन्धिः, गोअग्रं । १-२-३० इन्द्रे, गवेन्द्रयज्ञः ॥ इति स्वरसन्धिः २ ।
१-२-३२ प्लुतोऽनितौ स्वरेऽसन्धिः, सुश्लोक ३ आगच्छ, इतौ बेति । १-२-२२ ह्रस्वोऽपदे वा इवर्णादेरस्वे स्त्ररे, न चेन्निमित्तनिमित्तिनावेकत्र पदे, कुमारि अत्र, हस्वान्न यः, कुमार्यत्र, कुमारी अत्रेति, अति एति, समासे ननुदकं, अनुव्यचलदित्यखंडमव्ययं । १-२-२ ऋलति ह्रस्वो वा समानानां ब्रह्म ऋषिः, ह्रस्वविधेर्नार्, ब्रह्मर्षिः, बहुवचनात् ऋ ऋषभः । ७-४-८९ संमत्यसूयाकोपकुत्सनेष्वाद्यामन्त्रयमादौ स्वरेष्वन्त्यः प्लुतः, स्वरस्य ह्रस्वदीर्घप्लुता इत्यनित्यस्तेन स्वरे - ष्विति, एषु आद्यमामन्त्र्यं द्विराद्यस्य चान्त्यः स्वरः प्लुतो वा, माणवक ३ माणवक !। ७-४-९० भर्त्सने पर्यायेण वा प्लुतः आमन्त्र्यं द्विश्व, चौर ३ चौर, चौर चौर ३, चौर चौर । ७-४-९१ त्यादेः साकाङ्क्षस्याङ्गेन युक्तस्यांशो वा प्लुतः भर्त्सने, अङ्ग कूज ३ घातयिष्यामि त्वां । ७-४-९२ क्षियाशीः प्रैषे त्याद्यन्त्यस्य वाक्यान्तराकांक्षस्यान्त्योऽशः प्लुतो वा, क्षिया आचाराद् श्रेषः, सिद्धान्तमध्येषीष्ठाः ३ अध्येषीष्ठा वा तर्क च । ७-४-९३ चिती
ܕ
For Private and Personal Use Only