________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
,
Acharya Shri Kailassagarsuri Gyanmandir
( ४ )
घुटो धुटि स्वे वा व्यञ्जनाल्लुक्, तवर्धिः तवार्द्धः । १-३-३३ अञ्वर्गस्यान्तःस्थातः द्वे वाऽनु, सल्क्कारः सल्ल्क्कारः सल्ल्कारः सल्कारः । १-२-१२ ऐदौत् सन्ध्यक्षरैः अवर्णस्य सह, सैन्द्री तवौदनः । १-२-१३ ऊटा अवर्णस्यौः, लौः पौः । १-२-१४ प्रस्यैषैष्योढोदयू हे स्वरेणावर्णस्यैदोतौ, प्रैषः प्रेष्यः, अर्थवद्ग्रहणे नानर्थकस्येति ऊढेः प्रोढयति एषेः प्रेषते च, 'उपसर्गस्ये' त्यस्येदं बाधकं 'नोमाङी' त्यस्येति प्रेषः, नोह इति । १-२-१५ स्वैरस्वैर्यक्षौहिण्यां ऐदौतौ, स्वैरः, स्वैरी ताच्छिलिका दिणिनि, नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति स्वैरिणी, अक्षौहिणी । १-२-७ ऋणे प्रदशार्णवसनकंबलवत्सरवत्सतरस्यार् सह ऋता, प्रार्ण, विशेषेण सामान्यं बाध्यते नतु सामान्येन विशेष इत्यर्न, पर्जन्यवल्लक्षणप्रवृत्तेः प्र ऋणं । १-२-८ ऋते तृतीयासमासे, दुःखार्त्तः । १-२-९ ऋत्यारुपसर्गस्य धातौ पराध्नति, पुनराग्रहणानात्र ह्रस्वः, येन धातुना युक्ताः प्रादयस्तं प्रत्येवोपसर्गसंज्ञा तेन प्रच्छकः । १-२ - १० नाम्नि वाऽऽर् उपसर्गावर्णस्यर्कारादौ नामधातौ प्रार्षभीयति प्रर्षभीयति, प्रऋषभीयतीति । १-२-११ ऌत्याल्वा, उपाल्कारयति उपल्कारीयति । १-२-१६ अनियोगे लुगेवे अवर्णस्य इव । १-२-१७ वौष्ठौती समासे, बिम्बोष्ठी बिम्बोष्ठी स्थूलोतुः स्थूलौतुः । १-२-१८ ओमाङ, उपेहि, उभयस्थाननिष्पन्नोऽन्यतरव्यपदेशभागिति आङत्र, अद्योम् । १-२-१९ उपसर्गस्यानिणेधेदोति, प्रेजते परोखति । १-२-२०वा नाम्नि,
For Private and Personal Use Only