________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १५५)
। ५-४-५
महे अध्येष्यामहेऽध्येतास्महे, सामान्यातिदेशे विशेषस्य नातिदेशस्तन्न ह्यस्तनीपरोक्षे । ५-४-३ क्षिप्राशंसार्थयोर्भविष्यन्तीसप्तम्यौ आशंस्ये, उपाध्यायश्वेदागच्छति आगमदागमिष्यत्यागन्ता वा क्षिप्रमाशु त्वरितमरं शीघ्रमेते तर्कमध्येष्यामहे, आशंसेवकल्पये संभावये युक्तोऽधीयीय, द्वियोगे सप्तमी । ५-४-४ संभावने ( हेतोः शक्तिश्रद्धानं ) सिद्धवत् असिद्धेऽपि नानद्यतनः प्रबन्धासत्त्योः, भूते ह्यस्तनी भविष्यति च श्वस्तनी न, यावज्जीवमदात्, आगामिनी या पौर्णमास्येतस्यां प्रवर्तिष्यते जिनमहः, न परोक्षाद्या इति । ५-४-६ एष्यत्यवधौ देशस्यार्वाग्भागे नानद्यतनः, आशत्रुंजयाद्गन्तव्ये वलभ्या अवरे द्विरोदनं भोक्ष्यामहे । ५-४-३ कालस्यानहोरात्राणां अवधौ अवरभागे, आगामिनि वर्षे आग्रहायण्या अवरे दानं दास्यामहे । ५-४-८ परे वा भागे कालस्य, परत्वात्प्रबन्धासत्त्योः । ५-४-११ वोतात्प्राक् भूते क्रियातिपत्ती (सप्तम्यर्थे क्रियातिपत्तिः) कथं अनागांढे आधाय कृतमसेविष्यत सेवेत वा धिग्गहमहे । ५-४-१२ क्षेपेऽपिजात्ववर्त्तमाना, अपि जन्तून् हिनस्ति धिग्गर्हामहे । ५-४-१३ कथमि सप्तमी च वा क्षेपे, कथं मांसं भक्षयेत् भक्षयति अभक्षयत् वा? धिगन्याय्यमेतत्, भविष्यति तु अभक्षयिष्यदित्येव । ५-४-१४ किंवृत्ते सप्तमी भवष्यिन्त्यौ क्षेपे, कः कतरः कतमो वा अनृतं ब्रूयाद्वक्ष्यति वा १ । ५-४-१५ अश्रद्धामर्षेऽन्यत्रापि, किंवत्तेऽ
For Private and Personal Use Only