SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१४७) नाम्नो द्वितीयाद्यथेष्टं द्विः स्वरादेः, अश्वीयियिषति । ४-१-८ अन्यस्य प्रथमादिः, पुपुत्रीयिषति ॥ इति नामधातुप्रक्रिया ।। कण्डूग् गात्रविनामे । ३-४-८ धातोः कण्ड्वादेर्यक्, अधिकारेऽपि धातुग्रहान्न कण्ड्वादिनामभ्यः, कण्डूयति कण्डूयते, महीङ् पूजायाम् , वृद्धावपि । हणीङ् रोषे लज्जायां च, अवयवे कृतं लिङ्ग समुदायमपि विशिनष्टि चेत्तं समुदायं सोऽवयवो न व्यभिचरति हणीयते । वेङ् लाङ् मन्तु अपराधे । वल्गु माधुर्ये, पूजायामपि । अस् असु उपतापे । वेट लाट जीवने, धौ.स्वप्नपूर्वभावेध्वपि । लिट अल्पकुत्सनयोः । लोट् धौर्येऽस्वप्ने च, दीप्तावपि । उरस् बले। उपस् प्रभातीभावे । इरस् ईयायां । तिरस अन्तौ । इयस् इमस् एयस् प्रसृतौ । पुष संतोषे । पयस् प्रसवे । संभूयस् प्रभूतभावे । दुवस् परितापपरिचरणयोः । दुरज् भिषज् चिकित्सायां । भिष्णुक् उपसेवायां। नन्द समृद्धौ । रेखा श्लाघाऽऽसादनयोः । लेखा स्खलने । एला केला खेला विलासे । वेला समयार्थे । गोधा मेधा आशुग्रहणे । मगध परिवेष्टने । इरध इषुध शरधारणे । कुडुंभ क्षेपे । सुख दुःख तक्रियायां । अगद नीरोगत्वे । गद्गद वाक्स्खलने, हिदिति । तरण वरण गतौ । उरण तुरण त्वरायां। पुरण भुरण धारणपोषणयोः। चुरण चौर्ये । तिरस् तरण गतौ । तंतस् पंपस् दुःखे । अरर आराकर्मणि । सपर पूजायां । समर संग्रामे । ४-१-९ कण्ड्वादेस्तृतीयोऽशो For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy