________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३६) शिष असर्वोपयोगे ( अनुपयोगः), विपूर्वोऽतिशये ( उत्कर्षः)। जुष परितर्कणे, परितर्पणेऽपि । धृष प्रसहने, धृषापि । हिसु हिंसायाम् । गर्ह विनिन्दने । पह मर्षणे । बहुलमेतनिदर्शनं, क्लीवस्तम्भूचुलुम्पाद्या गणाष्टकोक्ताः स्वाथै णिजन्ताः, प्रयोज्यव्यापारेऽनुप्रवेशो विना णिगं, उदाहरणार्थाः खण्डादय इति बहुलता ॥ इति वृधुजादयः। इति चुरादयो णितः।
३-४-२० प्रयोक्तृव्यापारे णिग् वा, प्रेषणाध्येषणनिमित्तभावाख्यानाभिनयज्ञानप्राप्तिभेदैः, कुर्वन्तं प्रयुक्त कारयति, न्यादिवजनात्पूर्वविकारवाधको न बाधकस्तेन अचीकरत् , प्रेषणविशिष्टे कर्तरि पञ्चमी, स्मारयति असस्मरत् । ३--४--१९ भूङ प्राप्तौणिङ्, भावयते, ङिच्चादान ,णिङभावेऽप्यात् ,प्राप्तावपि परस्मै इतिच, वस्त्योरेकतरेण सिद्धावुभयोपादानात् कर्मणि भावयामाहे, भवते प्राप्नोतीति सत्तायामपि , णौ सर्व कार्य स्थानिवदिति ४-१-६०ओर्जान्तस्थापवर्गेऽवणे पूर्वस्येः सनि, अबीभवत् अजीजवत् अयीयवत् , ओण ऋदित्करणात्प्राग् द्वित्वात् हस्वः, तेन अटिटत् मा। ४.१.६१ श्रुद्रुघुप्लुच्योर्वा इः, अशिश्रवत् अशुश्रवत् , अशशासत्, आशास: आशीशसत् , न ह्रस्वोऽपि । ४-२-२० पाशाछासाव्याहो योऽन्तो णौ, हाययति । दरिद्रयति, दरिद्रापयत्यपि, स्मृद्रित्यादिवचनात् अनेकवर्णव्यवधानेऽपि। ४-१-८८ णौ ङसनि हः यवृत् , अजूहवत् अजुहावत्,
For Private and Personal Use Only