________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२९)
बलदाननिकेतनेष्वाद्योऽनादरे चान्त्योऽपि । स्फुट परिहासे । कीट वर्णन, बन्धेऽपि । वटु विभाजने, डान्तोऽपि। रुट रोष । शठ श्वठ श्वठु संस्कारगत्योः। शुठ आलस्ये । शुटु शोषणे । गुठु वेष्टने । लड उपसेवायां । स्फुडु परिहासे । ओलडु उत्क्षेपे, ओलण्डयति,
ओदिद् ल्ठुरपिच । पीड गहने (बाधा), अवगाहनेऽपि । ४-२-६३ भ्राजभासभाषदीपजीवपीडमीलकणरणवणभणश्रणहहेठलुटलुपलपां नवा णौ उपान्त्यस्य हस्वः, अपिपीडत अपीपिडत् , बहुत्वाद्रासः । तड आघाते । खड खड्ड भेदे । कडु खंडने च,खुडूरपि । कुडु रक्षणे । गुडु वेष्टने च । चुडु छेदने । मडु भूषायां । भडु कल्याणे, भदुरपि।पिडु संघाते, पडुरपि । ईड स्तुती, ईडयति। चडु कोपे। जुडु चूर्ण वर्ण प्रेरणे (दलनं)।चूण तूण संकोचने, तूणयति । श्रण दाने, अशिश्रणत् अशश्राणत् । पूण संघाते। चितु स्मृत्यां । पुस्त बुस्त आदरानादरयोः, पुस्तो वन्दनेऽपि । मुस्त संघाते । कृत संशब्दने (ख्यातिः)। ४-४-१२३ कृतः कीर्तिः,कीर्तयति, येन विना यन्न भवति तत्तस्यानिमित्तस्यापि निमित्तं, ततोणिजभावे कृतति।४-४-३७ ऋहवर्गस्य डे णावुपान्त्यस्य, अचीकृतत्, अवणे एव णाविति अचिकीतत् । स्वर्त पथु गतौ, ध्वतः कृच्छ्रजीवनेऽपिच । श्रथ प्रतिहर्षे, पाठादात्मनेपदमपि । पृथ प्रक्षेपणे, पर्थपार्थावपि । प्रथ प्रख्याने, प्रक्षेपणेऽपि। ४-१-६५ स्मृदृत्वरप्रथम्रदस्तृस्पशेरः असमानलोपे डे णौ, अपप्रथत् ,
For Private and Personal Use Only