________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२४) इष इच्छायां, इच्छति एपिता एष्टा । मिष स्पर्धायां । यही उद्यमे । तृहौ दृहौ स्तृहौ स्तूंही हिंसायां, पाद्यावपि । कुट कौटिल्ये । ४-३-१७ कुटादर्डिद्वदञ्णित्, चुकुटिथ, विकल्पेन णिचात् चुकोट चुकुट । गु पुरीपोत्सर्गे, गूरपि, अडिन्तीति अगुषीत् । ध्रु गतिस्थैर्ययोः, धूरपि । णू स्तवने, अनुवीत् । धू विधूनने; धुवति । कुच संकोचने । व्यच व्याजीकरणे । ४-१-८२ व्यचोऽनसि किति वृत्, विचति, गणनिर्दिष्टस्यानित्यत्वात् विव्यचिथं व्यचिष्यति । गुज शब्दे । घुट प्रतिघाते, गुडपि । चुट छुट त्रुट छेदने । तुट कलहकर्मणि । मुट आक्षेपप्रमर्दनयोः । स्फुट विकसने । पुट लुट संश्लषणे, लुठपि । कुड घसने, धनत्त्वेऽपि । कुड बाल्ये च । गुड रक्षायां । जुड बंधने । तुड तोडने । लुट घुट स्थुड संवरणे । बुड उत्सर्गे च । ब्रुड भ्रड संघाते, संवरणेऽपि । टुड हुड त्रुड निमज्जने, हुंडि: संघातेऽपि । चुण छेदने । डिप क्षेपे । छुर छेदने । स्फुर स्फुरणे, चलनेऽपि ।२-३.५३ निर्नेः स्फुरस्फुलो षः, निष्फुरति । २-३-५४ ।।, विष्फुरति । स्फुल संचये च ॥इति परस्मैपदं । कु क्रुङ् शब्दे क्रुवते । गुरै उद्यमे । इति कुटादिः॥ कडस्फरस्फलाः पाठात् किणति न वृद्धिः, लिखीरपि च | पृङ् व्यायामे, व्याप्रियते । ढुङ् आदरे, आदतें । धृङ् स्थाने, धारणेऽपि । ओविजैङ् भयचलनयोः। ४-३-१८विजेरिद् द्वित्, उद्विजिता। ओलजै ओलस्जैई
For Private and Personal Use Only