________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२५)
ब्रीडे; नजैङपि, लज्जते । बजि संगे । २-३-४५ स्वञ्जश्व उपसर्गनाम्यादेः षः द्वित्वेऽट्यपि, चात्परोक्षायां त्वादे, अभ्यतः जत पर्यध्वजत पर्यस्वजत। ४-३-२२ स्वञ्जनवा अवित्परोक्षा किद्वत, अभिषस्वजे सस्वंजे । जुषैङ् प्रीतिसेवनयोः । इत्यात्मनेपदं । तुदादयस्तितः ।
रुधृग् आवरणे।३-४-८२रुधां स्वराच्छनों नलुक्च शिीत, रुणद्धि रुंद्धः रुद्धे अरुणत् अरौत्सीत् । रिचर विरेचने (निःसारणें ) । विचम् पृथग्भावे । युजर योगे । क्षुदृग् संपेषे । भिग विदारण । छिदृग् द्वैधीकरणे । ऊधृग् दीप्तिदेवनयोः, वमनेऽपि । ऊतृहर हिंसानादरयोः, तृणात्त तय॑ीत तर्दिष्यति । इत्युभयपदं । पृचै संपर्के । वृचै वरणे, वृजपि, वर्जने सोऽपि । तंचूं तंजौ संकोचने, तनक्ति, तंचौरपि । भजी आमदने । भुज पालनाभ्यवहारयोः ( भोजने ); भोक्ता, गिदिति । अंजौ व्यक्ति(प्रकटता) म्रक्षण (घृतादिसेकः) कान्तिगतिषु, केवलो म्रक्षण, आनञ्ज आनक्। ४-४-८४ सिचोऽओ आदिरिट् , आजीत् । ओविजै भयचलनयोः, विनक्ति । कृतै संवेष्टने । उदै क्लेदने । शिष्ल विशेषणे (गुणान्तरोत्पादनं)। पिष्ल संचूर्णने । हिसु तह हिंसायो, हिन्धि, हिंसhरत् भुजिभजिभ्यां तु वेति कश्चित्, न च तच्चारु, अहिनत् । ४-३-६२ तृहःश्नादीत् व्यंजनादौ विति, तृणेढिं तृण्हंति अतृण्ढ । इति परस्मैपदं । खिदि दैन्ये । विदि
For Private and Personal Use Only