________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ११५ )
।४-४८५ धुग् सुस्तोः परस्मै सिच आदिरिद्, अस्तावीत् तुष्टोथ । ब्रूग् व्यक्तायां वाचि । ४ - २ -- ११८ ब्रूगः पंचानां तिवां गवः पंचाहश्व, आह आत्थ । ४-३-६३ ब्रूतः परादि: व्यंजनादौ वितीत्, ब्रवीति अवोचत् उवाच वक्ष्ये । द्विषी अप्रीतौ, अद्विषुः अद्विषन् अक्षिन् । दुही क्षरणे, धोच्यति । दिही लेपे । लिहि आस्वादने, लेढि । इत्युभयपदं
हुदाना ( हविःप्रक्षेपः ) दनयोः । ४-१-१२ हवः शिति द्विः, जुहोति जुह्वति जुहुधि, प्रकृत्यनपेक्षणादन्तरङ्गत्वाच्च जुहुतात्। ४-३ -३ पुस्पौ गुणः, अजुहवुः अहौषीत् । ३ - ४ - ५० भीहीभृहोस्तिव्बत् वाऽऽम् जुहवांचकार जुहाव । ओहाक् त्यागे । ४-२-१०० हाकः शित्यविति व्यंजने इर्वा, जहितः जहीतः जहति । ४ - १ - २०२ यि लुक् हाकः शिति, जह्यात् । ४-१-१०१ आ च हौ हाकचादिदीतौ, जहीहि जहिहि जहाहि अजहुः । बिभी भये, विभेति । ४-२-९९ भियो नवा शित्यविति व्यंजने इः, विभितः बिभीतः बिभयांचकार विभाय । ही लज्जयां, जिहेति जिहियति । पृ पालनपूरणयोः । ४-१-५८ पृभृमाहाङामिः शिति पूर्वस्य, पिपर्त्ति पितृतः पपर्थ पत्रिव, बहुत्वात् ऋदन्तस्यापि, तेन । ४-४-११७ ओष्ट्यादुर् ऋतः क्ङिति, उपान्त्यस्यापि, पिपूर्त्तः पूर्यात् । ऋ गतौ, प्रित्यादिना इयर्त्ति ऐयरुः आरत् अर्थात् ॥ इति परस्मैपदम् ॥
For Private and Personal Use Only