________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १०१ )
"
,
1
र्याशीः षु च याश्चोपतापावर्थौ, शेषे द्योत्ये, साध्यत्वाद्वाऽथ । ३-३-३६ आशिषि नाथः कर्त्तर्यात्मनेपदं, नाथते नाथति, ङिवादानश् सोपसर्गस्यार्थान्तरेऽप्यात् । श्रथुङ् शैथिल्ये, शश्रन्थे, अनौपदेशिकत्वेऽपि एत्वनलुकाविति । ग्रथुङ् कोटिल्ये । कत्थि श्लाघायां । स्विदुङ् श्वैत्ये, वदुङ् स्तुत्यभिवादनयोः, ववन्दे । भदुङ् सुखकल्याणयोः प्रीतावपि । मदुङ् स्तुतिमोदमदस्वप्नगतिषु । स्पदुङ् किंचिच्चलने । क्लिदुङ् परिदेवने ( शोचने ), उभयत्र पाठात् फलवति कर्त्तरि परस्मै इतरथाऽपीतरत् । मुदि हर्षे । ददि दाने, दददे, धारणेऽपि । हृदि पुरीषोत्सर्गे । ष्वदि स्वदि स्वादि आस्वादने । उर्दि मानक्रीडयोथ । कुर्दि गुर्दि गुदि क्रीडायां, खुर्दिधिश्वापि । पूदि क्षरणे ( निरसनं ) । हादि शब्दे, अव्यक्तेऽपि । ह्लादैङ् सुखे च । पर्दि कुत्सिते शब्दे ( पायुध्वनौ अशब्देऽधोवाते वा ) । स्कुदुङ् आप्रवणे । एधि वृद्धौ | स्पर्धि संघर्ष | गाधृङ् प्रतिष्ठा ( आस्पदं ) लिप्साग्रंथेषु । वाट रोटने ( प्रतिघातः ) । दधि धारणे ( दाने )। बधि बन्धने । ३-४-७ शान्दान्मान्वधान् निशानार्जव विचार वैरूप्ये दीर्घश्वेतः, चात् स्वार्थे सन् । ४-१-५९ सन्यस्य पूर्वस्येः, बीभत्सते । नाधृङ् नाथुङ् वत्, णावृङपि । पनि स्तुतौ, पनायति, स्वार्थिकः प्रकृतिवदिति मते पनायते, पेने । मानि पूजायां, मीमांसते, अन्यत्र मानते । तिष्ट ष्टिष्ट टेपुङ् क्षरणे, आगमजमनित्यमिति तेप्ता । तेपृ कम्पने च । दुवैट केट गेष्ट कपुङ् चलने, चकंपे चकपे । ग्लेपृङ् दैन्ये च,
For Private and Personal Use Only