________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ९८ )
परिभाषणहिंसातर्जनेषु । मिह सेचने । दह भस्मीकरणे, धक्ष्यति । चह कल्कने ( शाठ्यं ) । रह त्यागे । रहु गतौ । दृह हहु बृह वृद्धौ । बृद्द बृह शब्दे च । उद्दृतु दुट्ट अर्दने ( पीडा ) । अर्ह मह पूजायां, सौत्रोऽर्घः । उक्ष सेचने । रक्ष पालने | मक्ष मुक्ष संघाते । अक्षौ व्याप्तौ च । ३-४-७६ वाऽक्षः शिति इनुः । ४-३-२ उनोः गुणोऽकिङ्क्ति, अक्ष्णोति अक्षति अक्ष्णुवंति, अक्ष्णुहि । तक्षौ त्वक्षौ तनूकरणे । ३-४-७७ तक्षः स्वार्थे वा नुः शिति, तक्ष्णोति काष्ठं, तक्षति । णिक्ष चुंबने, णिक्षणिसनिन्दामकृतोऽपि वा ण इति प्रणिक्षति प्रनिक्षति इति । तृक्ष स्तृक्ष णक्ष गतौ, स्पो । वक्ष रोपे, संघातेsपि । त्वक्ष त्वचने । सूर्क्ष अनादरे, सूर्यो । काक्षु वाक्षु माक्षु कांक्षायां । द्राक्षु प्राक्षु ध्वाक्षु घोरवासिते च ।। इति परस्मैपदिनः ॥
गाङ् गतौ, गाते अंतरंगत्वाद्गाते । ४-२-११४ अनतोऽन्तोदात्मने, गाते अगासत । ष्मिङ् ईषद्धसने, स्मयते । ४-२-१२१ आतामाते आथामाथे आदि: आ तः, स्मयेते, नित्यत्वाद् गुणे अस्मेष्ट । ४- ३-७२ सो धि वा लुकू, अस्मेध्वं, सिज्वृत्तौ सग्रहणात्प्रकृतिसोऽपि नवा नित्यं सिच इतिच | डीङ् विहायसा गतौ, अडयिष्ट, न धातुर्हस्वान्तः । २-१-८० नम्यतात्परोक्षाऽद्यतन्याशिषो धो ढः । २-१-८१ हान्तस्थाश्रीभ्यां वा, अडयिवं अडयिध्वम् डिड्ये । उक्कुगु घुङ ड्
For Private and Personal Use Only