________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५० ]
श्रीश्रीधरचरितमहाकाव्यम् ।
[ षष्ठः
>
कच्चिद् द्वितीयं हृदयं तृतीयं विनिद्रनेत्रं मम तत्र मित्रम् | रत्नाङ्गदः पाति नृपः प्रतापप्राज्यं च राज्यं विजितारिवर्गः ||२२||
तस्य प्रधानं गुणसंनिधानं, प्रधानवत् साङ्ख्यमते प्रधानम् । त्वमेष हृल्लेख करश्चिराद् वा, प्रीत्यै स्वमित्रागतपक्षिणोऽपि ॥ २३ ॥
दु० व्या - प्रधानवत् - प्रकृतिवत् । हल्लेख:- उत्कण्ठा ॥ २३ ॥
1
एष स्वभावः स्थिरसौहृदानां यथाऽर्कपद्मेन्दुपयोनिधीनाम् । मिथो यदाssलोकनतः प्रमोदस्तथापि कार्यश्रवणे विनोदः ||२४||
ऊचेऽथ भूपं सचिवः स्वरूपं, भवद्भिरः किं न वदन्तिरूपम् । इदं समाधानपदं हृदन्तर्मुदं ददत् ते विदधे तथापि ॥ २५ ॥
"7
दु० व्या० - वदन्तिरूपं प्रकृष्टम् । वदन्ति " त्यादेश्च प्रशस्ते रूपपू [ ७.३.१०.] प्रत्ययः । समाधानम् - उत्तरम् । पक्षे वैं - निश्चितम् ॥ २५ ॥
जित्वा दिवं रत्नपुरं विराजि, यल्लक्ष्मणानामपि वै जयन्ती । अबाधया यत्र पुमर्थ माजां, साम्यं प्रजानां दधते न देवाः ॥ २६ ॥
दु० व्या० - जयन्ती - इन्द्रपुत्री ॥ २६ ॥
रत्नोज्ज्वलैरिभ्यजनस्य हयैर्धर्मालयै मौक्तिकधर्मरम्यैः । अहो ! महीमण्डलमण्डनाय, तन्मण्डलं कुण्डलतामियर्ति ||२७||
रत्नाङ्गदे रक्षति बाहुदण्डमिव क्षमामण्डलमिद्धकान्तौ । कुतः कुशोभारिपवोऽभितस्तत् पराभवं कर्तुमलं भवन्ति ||२८||
दु० व्या० - कुशोभा - एकः, कुशोभा - पृथ्वीशोभा तस्या रिपवः ॥ २८ ॥
For Private And Personal Use Only